________________
न्यायबिन्दुटीका [३ परिच्छेदः मेवेत्यर्थः ॥ साधनस्य च साध्येऽर्थे नियतत्वकथनं व्याप्तिकथनम् । यथोक्तं-"व्याप्तिापकस्य तत्र भाव एव, व्याप्यस्य च तत्रैव भावः" इति।
___ व्याप्तिसाधनस्य प्रमाणम्य विषयो दृष्टान्तः । तमेव दर्शयितुमाह-- यथान्य इति । साध्यधर्मिणः 'अन्यः', दृष्टान्त इत्यर्थः । 'दृष्टः' इति प्रमाणेन निश्चितः । शशविषाणं हि न चक्षुषा विषयीकृतं, अपि तु प्रमाणेन दृश्यानुपलम्भेन असयवहारयोग्य विज्ञातम् । शशविषाणमादिर्यस्यासद्व्यवहाराविषयस्य स तथोक्तः । शशविषाणादौ हि दृश्यानुपलम्भमात्रनिमित्तोऽसद्व्यवहारः प्रमाणेन सिद्धः । तत एव प्रमाणात अनेन वाक्येनाभिधीयमाना व्याप्तिज्ञातव्या ।
___ संप्रति व्याप्तिं कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं दर्शयितुमाह-- नोपलभ्यते चेति । 'प्रदेशः ' एकदेशः पृथिव्याः; स एव विशिष्यतेऽन्यस्मादिति विशेषः, एकः । प्रदेशविशेषे इत्येकस्मिन्प्रदेशे । 'क्वचित् ' इति प्रतिपत्तुः प्रत्यक्षे । एकोऽपि प्रदेशः, स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तः प्रत्यक्षो, नान्यः । ' उपलब्धिलक्षणप्राप्तः' इति दृश्यः । यथा चासतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्तत्वं तथा व्याख्यातम् ।
खभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह---
तथा स्वभावहेतोः प्रयोगः ॥ १० ॥
तथेति । यथा अनुपलब्धेः तथा स्वभावहेतोः साधर्म्यवान्प्रयोग इत्यर्थः । यत्सत्तत्सर्वमानत्यं यथा घटादिरिति शुद्धस्य
स्वभावहेतोः प्रयोगः ॥ ११ ॥ ' यत्सत् ' इति सत्त्वमनूद्य 'तत्सर्वमनित्यम्' इत्यनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् । सर्वमनित्यं न किंचित् नानित्यं, यत्सत् तदनित्यमेव, अनित्यत्वादन्यत्र नित्यत्वे सत्त्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च सति व्याप्तिप्रदर्शन [४५ ] वाक्यमिदम् । यथा घटादिरिति । व्याप्तिसाधनस्य