________________
न्यायविन्दुटीका
७२
अतो ऽस्मान्नान्यस्याभावगतिः ।
तथा न वक्तृत्वाद्रागादिमत्त्वगतिः ; यतो यदि वचनादि रागादीनां कार्यं स्यातू वचनादे रागादिगतिः स्यात्, रागादिनिवृत्तौ [च] वचनादिनिवृत्तिः स्यात् । न च कार्यम् । कुतः ? रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः ||८०|| रागादीनां वचनादेव कार्यकारणभावस्यासिद्धेः कारणात् न कार्य, अतो ऽस्मान्न गतिः ।
[ ३ परिच्छेदः
माभूद्रागादिकार्यं वचनम्, सहचारि तु भवति ; ततो रागादौ सहचारिणि निवृत्ते निवर्तते वचनमित्याशङ्कयाह-[२] अर्थान्तरस्य वाऽकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः ॥ ८१ ॥
इति संदिग्धव्यतिरेको ऽनैकान्तिको वचनादिः ॥ ८२ ॥ अर्थान्तरस्य वा ऽकारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण | नान्यस्य वचनादेर्निवृत्तिः । अतो वक्तृत्वं भवेद्रागादिविरहश्रेति । इतिशब्दः तस्मादर्थे । तस्मादसर्वज्ञत्वविपर्ययाद्विपक्षात् सर्वज्ञत्वाद्रागादिमत्त्व विपर्ययादरागादिमत्त्वात् संदिग्धो व्यतिरेको वचनादेः । अतो नैकान्तिको वचनादिः ।
एवमेकैकरूपासिद्धिसंदेहे हेतुदोषानाख्याय द्वयोर्द्वयो रुपयोरसिद्धिसंदेह हेतुदोषान्वक्तुकाम आह-
द्वयोरूपयोर्विपयर्यसिद्धौ विरुद्धः ॥ ८३ ॥ द्वयोरूपयोर्विपर्ययसिद्धौ सत्यां विरुद्धः ।
त्रीणि च रूपाणि सन्ति । ततो विशेषज्ञापनार्थमाह-
कयोर्द्वयोः ॥ ८४ ॥
कयोर्द्वयोरिति । विशिष्टे रूपे दर्शयति