________________
९४
न्यायबिन्दुटीका [३ परिच्छेद स्वकार्याकरणात् दुष्टः । अप्रदर्शितव्यतिरेको यथा अनित्यः शब्दः
कृतकत्वादाकाशवदिति ॥१३॥
अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्द इत्यनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । आकाशवदिति वैधर्येण दृष्टान्तः । इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धोऽपि स्वतः, यदि परेण अशुद्धः ख्याप्यते, स तावत् यथा प्रकाशितः तथा न युक्तः ; यथा युक्तः तथा न प्रकाशितः । प्रकाशितश्च हेतुः । अतो वतुरपराधादपि परार्थानुमाने हेतुर्दृष्टान्तो वा दुष्टः स्यादपि । न च सादृश्यादसादृश्याद्वा साध्यप्रतिपत्तिः अपि तु साध्यनियतात् हेतोः । अतः साध्यनियतो हेतुः अन्वयवावयेन व्यतिरेकवाक्येन च वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स तथोक्तो दृष्टान्तेन सिद्धो दर्शयितव्यः । तस्मात दृष्टान्तो नाम अन्वयव्यतिरेकवाक्यार्थप्रदर्शनः । न चेह व्यतिरेकवाक्य प्रयुक्तम् । अतो वैधNदृष्टान्तः इह असादृश्यभावन साधक उपन्यस्तः । न च तथा साधकः। व्यतिरेकविषयत्वेन स साधकः । न च तथा उपन्यस्त इति । अतः अप्रदर्शितव्यतिरेको वक्तुरपराधात् दुष्टः ।
वैधhणापिविपरीतव्यतिरेको यथा यदकृतकं तन्नित्यं
भवतीति ॥ १३६ ॥ विपरीतो व्यतिरेको यस्मिन् वैधHदृष्टान्ते स तथेक्तः । तमुदाहरति-यद कृतकमित्यादि । इह अन्वयव्यतिरेकवाक्याभ्यां साध्यनियतो हेतुः दर्शयितव्यः । यदा च साध्यनियतो हेतुः दर्शयितव्यः तदा व्यतिरेकवाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः। एवं हि हेतुः साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो नारख्यायते, साधनसत्तायामपि साध्य भावः संभाव्येत । तथा च साधनं साध्यनियत न प्रतीयेत । तस्मात् साध्याभावः साधनाभावे नियतो वक्तव्यः ।