________________
२ परिच्छेदः] न्यायाबन्दुटीका
२९ शब्दार्थः । एतस्मात्कारणान्नान्यस्या अनुपलब्धेः प्रतिषेधसिद्धिः ॥ कुत एतत् सत्यपि वस्तुनि तस्याः संभव इत्याह -- अनुपलब्धिलक्षणप्राप्तेष्वित्यादि । इह प्रत्ययान्तरसाकल्यात् स्वभावविशेषाच्च उपलब्धिलक्षणप्राप्तोऽर्थः उक्तः । द्वयोरेकस्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ उच्यते । तदिह अनुपलब्धिलक्षणप्राप्तेष्विति प्रत्ययान्तरकैवल्यवन्त उक्ताः । देशकालस्वभावविप्रकृष्टेष्विति स्वभावविशेषविप्रकृष्टा उक्ताः । देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा इति विग्रहः । तेष्वभावनिश्चयस्याभावात् । सत्यपि वस्तुनि तस्याभाव इष्टः । कस्मान्निश्चयाभाव इत्याह- तेषु प्रतिपतुः ‘आत्मनः' यत् प्रत्यक्षं तस्य निवृत्तेः कारणात् निश्चयाभावः । यस्मात् अनुपलाब्धिलक्षणप्राप्तेष्वात्मप्रत्य
क्षनिवृत्तेरभावनिश्चयाभावः , तस्मात् सत्यपि वस्तुन्यात्मप्रत्यक्षनिवृत्तिलक्ष.णाया अदृश्यानुपलब्धेः संभवः । ततो यथोक्ताया एव प्रतिषेधसिद्धिः ।
अथेयं दृश्यानुपलब्धिः कस्मिन्काले प्रमाणं किस्वभावा किंव्यापारा चेत्याह -
अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनी ॥ २९ ॥
. प्रतिपतुः प्रत्यक्षो घटादिरर्थः तस्य 'निवृत्तिः' अनुपलब्धिः, तदभावस्वभावेति यावत् । अत एवाभावो न साध्यः , स्वभावानुपलब्धेः सिद्धत्वात् । अविद्यमानोऽपि च घटादिरेकज्ञानसंसर्गिणि भूतले भासमाने समग्रसामग्रीको ज्ञायमानो दृश्यमानतया संभावितत्वात् प्रत्यक्षः उक्तः । अत एकज्ञानसंसर्गी दृश्यमानोऽर्थः तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते । ततो हि दृश्यमानादर्थात् तद्दुद्धेश्च समग्रदर्शनसामग्रीकत्वेन प्रत्यक्षतया संभावितस्य निवृत्तिरवसीयते । तस्मादर्थज्ञानं एव प्रत्यक्षस्य घटस्याभाव उच्यते । न तु निवृत्तिमात्रमिहाभावः [२९] निवृत्तिमात्रात् दृश्यनिवृत्त्यनिश्चयात् ॥ ननु च दृश्यनिवृत्तिरवसीयते दृश्यानुपलम्भात् । सत्यमेवैतत् । केवलमेकज्ञानसंसर्गिणि दृश्यमाने 'घटो यदि भवेद् दृश्य एव भवेत् ' इति दृश्यः संभावितः ततो दृश्यानुपलब्धिनिश्चिता । दृश्यानुपलाब्धिनिश्चयसाम