Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 Acharya Shri Kailassagarsuri Gyanmandir विशेषा ० णपरिणतत्वादाकारवती, तदनाकारवच्चे तु 'नीलस्येदं संवेदनं न पीतादे: ' इति नैयर्त्य न स्यात्, नियामकाभावात् नीलाद्याकारी हि नियामकः, यदा च स नेष्यते तदा 'नीलग्राहिणीयं मतिर्न पीतादिग्राहिणी' इति कथं व्यवस्थाप्यते १, विशेषाभावात् तस्मादाकारवत्येव मतिरभ्युपगन्तव्या । शब्दोऽपि पौगलिकत्वादाकारवानेव । घटादिकं वस्त्वाकारवश्चैन प्रत्यक्षसिद्धमेव । क्रियाऽप्युत्क्षेपणा-वक्षेपणादिका क्रियावतोऽनन्यत्वादाकारवत्येव । फलमपि कुम्भकारादिक्रियासाध्यं घटादिकं मृत्पिण्डा दिवस्तुपर्यायरूपत्वादाकारवदेव । अभिधानमपि शब्दः, स च पौगलिकत्वादाकारवानित्युक्तमेव । तस्माद् यदस्ति तत् सर्वमाकारमयमेव यवनाकारं तद् नास्त्येव, वन्ध्यापुत्रादिरूपत्वात् तस्य ॥ इति गाथार्थः ॥ ६४ ॥ अथ प्रयोगद्वारेणाऽनाकारं वस्तु निराचिकीर्षुराह ने पराणुमयं वत्थु आगाराऽभावओ खपुष्कं व । उवलंभ व्ववहाराऽभावाओ नामागारं च ॥ ६५ ॥ परस्याऽऽकारवद्वस्तु निषेधकस्याऽनुमतमभिप्रेतं सामर्थ्याद् यदनाकारं वस्तु तद् नास्ति, आकाराभावात् खपुष्पवत् । अपरमपि हेतुद्वयमाह - 'उवलंभेत्यादि' 'नाणागारमिति' नास्त्यनाकारं वस्तु, सर्वथैवाऽनुपलभ्यमानत्वात्, तेनाऽणीयसोऽपि व्यवहारस्याSभावाच इति पर्यन्तवर्ती चकारोऽत्र योजनीयः, संपुष्पवदिति दृष्टान्तो हेतुद्वयेऽपि स एव ।। इति गाथार्थः ॥ ६५ ॥ तदेवं स्थापनानयेनोक्ते द्रव्यनयः प्राह देव्वपरिणाममित्तं मोत्तूणाऽऽगारदरिसणं किं तं ? । उप्पायव्वयरहिअं दव्वं चिय निव्वियारं तं ॥ ६६ ॥ कोहि नाम स्थापना यस्याऽऽकारग्रहः ?, यस्माद् द्रवतीति द्रव्यमनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारं मृदादि पूर्वपर्यायमात्रतिरोभावेऽग्रे तन पर्याय मात्राऽऽविर्भावः परिणामो द्रव्यस्य परिणामो द्रव्यपरिणामः स एव तन्मात्रं तद् मुक्त्वा किमन्यदाऽऽकारदर्शनम्, ratord ' औगारो चिय मह-सह-वधु -' इत्यादि । ननु द्रव्यमेव तत् । किंविशिष्टम् १, उत्पाद-व्ययरहितं निर्विकारं- उत्फण-विफ- कुण्डलिताकारसमन्वितसर्वद्रव्यवद् विकाररहितम् ; किं हि नाम तत्राऽपूर्वमुत्पन्नम्, विद्यमानं वा विनष्टम्, येन विकारः स्यात् १, इति भावः ॥ इति गाथार्थः ॥ ६६ ॥ १ न परानुमतं वस्तु आकाराऽभावात् खपुष्पमिव । उपलम्भ-व्यवहाराऽभावाद नानाकारं च ॥ ६५ ॥ + मेन्तं- दि.द. ॥ २ द्रव्यपरिणाममानं मुक्त्वाऽऽकारदर्शनं किं तत् ? । उत्पादव्ययरहितं द्रव्यमेव निर्विकारं तत् ॥ ६६ ॥ ३ गाथा ६४ । ननु कथमुत्पादादिरहितमुच्यते, यावता सर्पादिके द्रव्ये उत्फण-विफणादयः पर्याया उत्पद्यमाना निवर्तमानाश्च प्रत्यक्षेणैव दृश्यन्ते १, इत्याह · ओविभाव- तिरोभावमेत्तपरिणामकारणमचिन्तं । निच्चं बहुरूवं पि य नडो व्व वेसंतरावन्नो ॥ ६७ ॥ आविर्भावश्च तिरोभावश्च तावेव तन्मात्रं तदेव परिणामस्तस्य कारणं द्रव्यम्, यथा सर्प उत्फण-विफणावस्थयोरिति न ात्राऽपूर्व किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाऽऽविर्भवति । नाऽप्याविर्भूतं सद् विनश्यति, किन्तु च्छन्नरूपतया तिरोभावमेवाss सादयति । एवं च सत्याऽऽविर्भाव तिरोभावमात्र एव कार्योपचारात् कारणत्वमस्यौपचारिकमेव । तस्मादुत्पादादिरहितं द्रव्यमुच्यत इति । आह- ननु यद्येकस्वभावं निर्विकारं द्रव्यम् तर्ह्यनन्तकाल भाविनामनन्तानामध्याविर्भाव तिरोभावानामेकहेलयैव कारणं किमिति न भवति १, इत्याह- अचिन्त्यमचिन्त्यस्वभावं द्रव्यम्, तेनैकस्वभावस्याऽपि तस्य क्रमेणैवाऽऽविर्भाव तिरोभावप्रवृत्तिः, सर्पादिद्रव्यभ्वकस्वभावेष्वप्युत्कण-विफणादिपर्यायक्रममवृत्तेः प्रत्यक्षसिद्धत्वादिति । ननु यद्येवम्, उत्फण-विफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोरावस्थाऽधिष्ठानाद् अनित्यता द्रव्यस्य किमिति न भवति ? इति चेत्, इत्याह- वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, इदमुक्तं भवति यथा नायक- विदूषक कपि राक्षसादिपात्रावसरेषु वेषान्तराण्यापन्नो वेषान्तरापन्नो नटो बहुरूपः, एवमुत्फण-विफणादिभावैर्यद्यपि द्रव्यमपि बहुरूपम्, तथापि नित्यमेत्र, स्वयमविकारित्वात्, आकाशवत् - यथा हि घटपटादिसंबन्धेन बहुरूपमप्याकाशं स्वयमविकारित्वाद् नित्यम्, एवं द्रव्यमपीति भावः ॥ इति गाथार्थः ॥ ६७ ॥ कारणमेव च सर्वत्र त्रिभुवने विद्यते न कचित् कार्यम्, यच्च कारणं तत् सर्वं द्रव्यमेव, इति दर्शयन्नाह - पिंडो कारणमिट्ठे पयं व परिणामओ तहा सव्वं । आगाराइ न वत्युं निक्कारणओ खपुष्कं व ॥६८॥ मृदादिपिण्डः कारणमिष्टं कारणमात्रमेवाऽभ्युपगम्यते । कुतः १, इत्याह- परिणामित्वात् परिणमनशीलत्वात् पयोवद् दुधवत् । यथा च पिण्डः, तथाऽन्यदपि सर्व स्थास-कांश कुशूलादिकं त्रैलोक्यान्तर्गतं वस्तु कारणमात्रमेत्र, परिणामित्वात् पयोवत्, यद् यत् कारणं तत् सर्व द्रव्यमेव, इति द्रव्यनयस्य स्वपक्षसिद्धिः । ननु मृत्पिण्डादीनां कार्यभूताः स्थास- कोश-कुशूल-घटादयः प्रत्यक्षेणैव दृश्यन्ते, संबन्धिशब्दच कारणशब्दः सर्वदैव कार्यापेक्ष एवं प्रवर्तते, तत् कथं कारणमात्रमेवाऽस्ति न कार्यम् १, इति चेत् । For Private and Personal Use Only " १ आविर्भाव तिरोभावमात्रपरिणामकारणमचिन्त्यम् । नित्यं बहुरूपमपि च नट इव वेषान्तरापनः ॥ ६७ ॥ २ पिण्डः कारणमिष्टं पय इव परिणामतस्तथा सर्वम् । आकारादिर्न वस्तु निष्कारणतः खपुष्पमिव ॥ ६८ ॥ ३ . छ. 'यच्च का' ।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 ... 339