Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 विशेषा. ततन्तुसन्तानः पट इत्यादि । स्थापना पुनर्यस्तस्यैव सर्वस्य वस्तुनो निज आकार: | भाविकपालादिकार्यापेक्षया तु या 'स' तस्य सर्वस्यापि वस्तुनः कारणता हेतुतो तद् द्रव्यम्, “भूतस्य भाषिनो वा भावस्य हि कारण तु यल्लोके, तद् द्रव्यम्" इति वचनात । मुत्पिण्डादिवस्तुनस्तु कायर्यापन जन्यत्वापानं तदेव घटादिकं सर्व वस्तु भावोऽभिधीयते, भवनं भाव इति कृत्वा । इत्थं सर्व पत चतरूपाविनाभतं दृष्टम, एवमेव सम्यग्दर्शनव्यवस्थानात, सर्वनयसमूहात्मकत्वाज्जिनमतस्य । तदेवं सर्वस्यापि बस्तनश्चतुरूपताया किमुच्यते "ह भावो चिय वत्थु तयस्थसुभेहि किं व सेसेहिं ' इत्यादि . न कस्मिन्नेव वस्तुन्येककालं विद्यमानानां पर्यायाणा मध्ये 'अयं वस्तु' 'अपरस्त्ववस्तु' इति वक्तुं शक्यते, द्रव्यरूपतया सर्वेषामपि तेषामेकत्वादिति भावः ॥ इति गाथार्थः॥६॥ चतुष्टये नामनयः प्रधानं नामेव मन्यते । तत्र ये सुगतमतानुसारिणो " न बर्थे शब्दाः सन्ति " इत्यादिवचनात् नाम्नो वस्तुधर्मत्वमेव नेच्छन्ति, तान् प्रति नामनयः माह वैथुसरूवं नामं तप्पच्चयहेउओ सधम्म व्य । वत्थु नाऽणभिहाणा होजाऽभावो विवाऽबच्चो ॥६॥ नामनयस्याऽयमभिप्रायः-वस्तुनः स्वरूप नाम, तत्प्रत्ययहेतुत्वात् , स्वधर्मवत् , इह यद् यस्य प्रत्यर्यहेतुस्तत् तस्य धर्मः, यथा घटस्य स्वधर्मा रूपादयः, यच यस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, संपद्यते च घटाभिधानाद् घटे संप्रत्ययः, तस्मात् तत् तस्य ध। सिद्धश्च हेतुरावयोः, घटशब्दात् पटादिव्यवच्छेदेन घट(इति)प्रतिपश्यनुभूतेः। सर्वे च वस्तु नामरूपान व्यभिचरतीति दर्शयन्नाह-'वत्थुमित्यादि' यदि वस्तुनो नामरूपता न स्यात् तदा तद् वस्त्वेव न भवेदिति संवन्धः। कुतः, इत्याहअनभिधानादभिधानरहितत्वादित्यर्थः । अवाच्योऽभिधानरहितत्वेनाऽनभिधेयो योऽसावभावः षष्ठभूतादिलक्षणस्तद्वदिति दृष्टान्तः, इह यदभिधानरहितं तद् वस्त्वेव न भवति, यथाऽभिधानरहितत्वेनाऽवाच्यः षष्ठभूतलक्षणोऽभावः, अभिधानरहितं च वस्वभ्युपगम्यते परैः, ततोऽवस्तुत्वमेवाऽस्य भवेद्, अवस्तुत्वे च कुतस्तत्प्रत्ययहेतुत्वलक्षणस्य हेतोवृत्तिः, येनाऽनैकान्तिकता स्यात् । तंत्र तंदवृत्तौ वा तस्यापि वस्तुत्वमेव भवेत, स्वप्रत्ययजनकत्वात् , घटादिवदिति । विपक्ष एव वृत्तेरभावाद् विरुद्धताऽप्यसंभविनीति । तस्माद् वस्तधर्म एव नामेति स्थितम् । न च 'नधास्तीरे गुडमृतशकटम् ' इत्यादिशब्दात प्रवृत्तस्य कदाचिद् वस्त्वमाप्तेरवस्तधर्मता तस्येत्याशङ्कनीयम् , प्रत्यक्षादिप्रमाणानामपि तत्प्रसङ्गात्- तेभ्योऽपि हि प्रवृत्तस्य कदाचिद् वस्त्वप्रातः । अबाधितेभ्यस्तेभ्यः प्रवृत्ती भवत्येवा १५. छ. 'हेतुभूतता' । २ गाथा ५५। ३ वस्तुस्वरूपं नाम तत्प्रत्ययहेतुतः स्वधर्म इव । वस्तु नाऽनभिधानाद् भवेदभाव हवाऽवाच्यः ॥१०॥ " ख. ग. 'यस्य हेतु' । ५ नानि । ६ तत्प्रत्ययहेतुत्वलक्षणहेतुप्रवर्तने । • नानोऽपि । नानि तनाथमहेतुत्पलक्षणहेतु प्रवर्तने वा नाम्नोऽपि । ऽर्थप्राप्तिरिति चेत् । तदेतदिहाऽपि समानम् , सुविवेचितादाप्तमणीतशब्दाद् वस्तुमाप्तेरत्राऽप्यवश्यंभावित्वात् , इत्यादि बहन वक्तव्यम् ; तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् , अन्यत्रोक्तत्वाच्च ॥ इति गाथार्थः ॥ ६१॥ किश्च संसयविवजया वाऽणज्झवसाओऽहवा जदिच्छाए । होजत्थे पडिवत्ती न वत्थुधम्मो जया नाम ॥ ६२ ॥ यदा वस्तुधर्मो नाम नेष्यते तदा वक्त्रा घटशब्दे समुच्चारिते श्रोतुः 'किमयमाह ?' इत्येवं संशय एव स्यात्, न घटप्रतिपत्तिः। अथवा घटशब्दे मोक्ते पटप्रतिपत्तिलक्षणो विपर्ययः स्यात् । अथवा 'न जाने किमप्यनेनोक्तम् ' इति चित्तव्यामोहेन वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः स्यात् । यदि वा यदृच्छयाऽर्थे प्रतिपत्तिर्भवेत्- कदाचिद् घटस्य, कदाचित् पटस्य, कदाचित्तु स्तम्भस्येत्यादि । न चैवं भवति । तस्माद् वस्तुधर्म एव नाम ॥ इति गाथार्थः ।। ६२ ॥ अपि च- . ___ वेत्थुस्स लक्ख-लक्खण-संववहाराऽविरोहसिद्धीओ। अभिहाणाऽहीणाओ बुद्धी सद्दी य किरिया य ॥६३॥ वस्तुनो जीवादेः। किम् ?, इत्याह- अभिधानाधीना नामाऽऽयत्ताः। काः, इत्याह- लक्ष्यं च लक्षणं च संव्यवहारश्च लक्ष्य-लक्षण-संव्यवहारास्तेषामविरोधेनाविपर्ययेण सिद्धयः प्रतिष्ठाः। तत्र लक्ष्यं जीवत्वादि, लक्षणमुपयोगः, संव्यवहारोऽध्येषण प्रेषणादिः। तथा बुद्धि-शब्द-क्रियाश्च 'अभिधानाधीनाः' इत्यत्रापि संबध्यते । तत्र बुद्धिर्वस्तुनिश्चयरूपा, शब्दो घटादिध्वनिरूपः, क्रिया चोत्क्षेपणा-ऽवक्षेपणादिका । तस्मादभिधानमेव वस्तु सत् , तदाऽऽयत्ताऽऽत्मलाभत्वात् सर्वव्यवहाराणाम् ॥ इति गाथार्थः ।। ६३ ॥ तदेवं शब्दनयेन निजमते स्थापिते स्थापनानयः पाह आगारो च्चिय मइ-सद्द-वत्यु-किरिया-फलाऽभिहाणाई । आगारमयं सव्वं जमणागारं तयं नत्थि ॥६॥ आकार एव आकारमात्ररूपाण्येव । कानि ?, इत्याह-पतीत्यादि, मतिश्च शब्दश्चेत्यादिद्वन्द्वः। तत्र मतिस्तावज्ज्ञेयाऽऽकारग्रह संशयविपर्ययौ चाऽनध्यवसायोऽधवा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मों यवा नाम ॥ १२॥ २ वस्तुनो लक्ष्य-लक्षण-संव्यवहाराऽविरोधसिद्धयः । अभिधानाधीनाः बुद्धिः शब्दश्च क्रिया च ॥३॥ ३ आकार एव मति-शब्द-वस्तु-किया- फला-ऽभिधानानि । आकारमयं सर्वं यदनाकारं तद् नास्ति ॥ ६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 ... 339