________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
21
विशेषा. ततन्तुसन्तानः पट इत्यादि । स्थापना पुनर्यस्तस्यैव सर्वस्य वस्तुनो निज आकार: | भाविकपालादिकार्यापेक्षया तु या 'स' तस्य सर्वस्यापि वस्तुनः कारणता हेतुतो तद् द्रव्यम्, “भूतस्य भाषिनो वा भावस्य हि कारण तु यल्लोके, तद् द्रव्यम्" इति वचनात । मुत्पिण्डादिवस्तुनस्तु कायर्यापन जन्यत्वापानं तदेव घटादिकं सर्व वस्तु भावोऽभिधीयते, भवनं भाव इति कृत्वा । इत्थं सर्व पत चतरूपाविनाभतं दृष्टम, एवमेव सम्यग्दर्शनव्यवस्थानात, सर्वनयसमूहात्मकत्वाज्जिनमतस्य । तदेवं सर्वस्यापि बस्तनश्चतुरूपताया किमुच्यते "ह भावो चिय वत्थु तयस्थसुभेहि किं व सेसेहिं ' इत्यादि . न कस्मिन्नेव वस्तुन्येककालं विद्यमानानां पर्यायाणा मध्ये 'अयं वस्तु' 'अपरस्त्ववस्तु' इति वक्तुं शक्यते, द्रव्यरूपतया सर्वेषामपि तेषामेकत्वादिति भावः ॥ इति गाथार्थः॥६॥
चतुष्टये नामनयः प्रधानं नामेव मन्यते । तत्र ये सुगतमतानुसारिणो " न बर्थे शब्दाः सन्ति " इत्यादिवचनात् नाम्नो वस्तुधर्मत्वमेव नेच्छन्ति, तान् प्रति नामनयः माह
वैथुसरूवं नामं तप्पच्चयहेउओ सधम्म व्य । वत्थु नाऽणभिहाणा होजाऽभावो विवाऽबच्चो ॥६॥
नामनयस्याऽयमभिप्रायः-वस्तुनः स्वरूप नाम, तत्प्रत्ययहेतुत्वात् , स्वधर्मवत् , इह यद् यस्य प्रत्यर्यहेतुस्तत् तस्य धर्मः, यथा घटस्य स्वधर्मा रूपादयः, यच यस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, संपद्यते च घटाभिधानाद् घटे संप्रत्ययः, तस्मात् तत् तस्य ध। सिद्धश्च हेतुरावयोः, घटशब्दात् पटादिव्यवच्छेदेन घट(इति)प्रतिपश्यनुभूतेः। सर्वे च वस्तु नामरूपान व्यभिचरतीति दर्शयन्नाह-'वत्थुमित्यादि' यदि वस्तुनो नामरूपता न स्यात् तदा तद् वस्त्वेव न भवेदिति संवन्धः। कुतः, इत्याहअनभिधानादभिधानरहितत्वादित्यर्थः । अवाच्योऽभिधानरहितत्वेनाऽनभिधेयो योऽसावभावः षष्ठभूतादिलक्षणस्तद्वदिति दृष्टान्तः, इह यदभिधानरहितं तद् वस्त्वेव न भवति, यथाऽभिधानरहितत्वेनाऽवाच्यः षष्ठभूतलक्षणोऽभावः, अभिधानरहितं च वस्वभ्युपगम्यते परैः, ततोऽवस्तुत्वमेवाऽस्य भवेद्, अवस्तुत्वे च कुतस्तत्प्रत्ययहेतुत्वलक्षणस्य हेतोवृत्तिः, येनाऽनैकान्तिकता स्यात् । तंत्र तंदवृत्तौ वा तस्यापि वस्तुत्वमेव भवेत, स्वप्रत्ययजनकत्वात् , घटादिवदिति । विपक्ष एव वृत्तेरभावाद् विरुद्धताऽप्यसंभविनीति । तस्माद् वस्तधर्म एव नामेति स्थितम् । न च 'नधास्तीरे गुडमृतशकटम् ' इत्यादिशब्दात प्रवृत्तस्य कदाचिद् वस्त्वमाप्तेरवस्तधर्मता तस्येत्याशङ्कनीयम् , प्रत्यक्षादिप्रमाणानामपि तत्प्रसङ्गात्- तेभ्योऽपि हि प्रवृत्तस्य कदाचिद् वस्त्वप्रातः । अबाधितेभ्यस्तेभ्यः प्रवृत्ती भवत्येवा
१५. छ. 'हेतुभूतता' । २ गाथा ५५। ३ वस्तुस्वरूपं नाम तत्प्रत्ययहेतुतः स्वधर्म इव । वस्तु नाऽनभिधानाद् भवेदभाव हवाऽवाच्यः ॥१०॥
" ख. ग. 'यस्य हेतु' । ५ नानि । ६ तत्प्रत्ययहेतुत्वलक्षणहेतुप्रवर्तने । • नानोऽपि । नानि तनाथमहेतुत्पलक्षणहेतु प्रवर्तने वा नाम्नोऽपि । ऽर्थप्राप्तिरिति चेत् । तदेतदिहाऽपि समानम् , सुविवेचितादाप्तमणीतशब्दाद् वस्तुमाप्तेरत्राऽप्यवश्यंभावित्वात् , इत्यादि बहन वक्तव्यम् ; तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् , अन्यत्रोक्तत्वाच्च ॥ इति गाथार्थः ॥ ६१॥
किश्च
संसयविवजया वाऽणज्झवसाओऽहवा जदिच्छाए । होजत्थे पडिवत्ती न वत्थुधम्मो जया नाम ॥ ६२ ॥
यदा वस्तुधर्मो नाम नेष्यते तदा वक्त्रा घटशब्दे समुच्चारिते श्रोतुः 'किमयमाह ?' इत्येवं संशय एव स्यात्, न घटप्रतिपत्तिः। अथवा घटशब्दे मोक्ते पटप्रतिपत्तिलक्षणो विपर्ययः स्यात् । अथवा 'न जाने किमप्यनेनोक्तम् ' इति चित्तव्यामोहेन वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः स्यात् । यदि वा यदृच्छयाऽर्थे प्रतिपत्तिर्भवेत्- कदाचिद् घटस्य, कदाचित् पटस्य, कदाचित्तु स्तम्भस्येत्यादि । न चैवं भवति । तस्माद् वस्तुधर्म एव नाम ॥ इति गाथार्थः ।। ६२ ॥
अपि च- . ___ वेत्थुस्स लक्ख-लक्खण-संववहाराऽविरोहसिद्धीओ। अभिहाणाऽहीणाओ बुद्धी सद्दी य किरिया य ॥६३॥
वस्तुनो जीवादेः। किम् ?, इत्याह- अभिधानाधीना नामाऽऽयत्ताः। काः, इत्याह- लक्ष्यं च लक्षणं च संव्यवहारश्च लक्ष्य-लक्षण-संव्यवहारास्तेषामविरोधेनाविपर्ययेण सिद्धयः प्रतिष्ठाः। तत्र लक्ष्यं जीवत्वादि, लक्षणमुपयोगः, संव्यवहारोऽध्येषण प्रेषणादिः। तथा बुद्धि-शब्द-क्रियाश्च 'अभिधानाधीनाः' इत्यत्रापि संबध्यते । तत्र बुद्धिर्वस्तुनिश्चयरूपा, शब्दो घटादिध्वनिरूपः, क्रिया चोत्क्षेपणा-ऽवक्षेपणादिका । तस्मादभिधानमेव वस्तु सत् , तदाऽऽयत्ताऽऽत्मलाभत्वात् सर्वव्यवहाराणाम् ॥ इति गाथार्थः ।। ६३ ॥
तदेवं शब्दनयेन निजमते स्थापिते स्थापनानयः पाह
आगारो च्चिय मइ-सद्द-वत्यु-किरिया-फलाऽभिहाणाई । आगारमयं सव्वं जमणागारं तयं नत्थि ॥६॥ आकार एव आकारमात्ररूपाण्येव । कानि ?, इत्याह-पतीत्यादि, मतिश्च शब्दश्चेत्यादिद्वन्द्वः। तत्र मतिस्तावज्ज्ञेयाऽऽकारग्रह
संशयविपर्ययौ चाऽनध्यवसायोऽधवा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मों यवा नाम ॥ १२॥ २ वस्तुनो लक्ष्य-लक्षण-संव्यवहाराऽविरोधसिद्धयः । अभिधानाधीनाः बुद्धिः शब्दश्च क्रिया च ॥३॥ ३ आकार एव मति-शब्द-वस्तु-किया- फला-ऽभिधानानि । आकारमयं सर्वं यदनाकारं तद् नास्ति ॥ ६ ॥
For Private and Personal Use Only