________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
विशेषा.
इह नामादिविचारे प्रक्रान्ते भाव एव वस्तु, विवक्षितार्थक्रियासाधकत्वात् , उभयसंमतवस्तुवत्। न हि भावेन्द्रवद् विवक्षिता र्थसाधनसमर्था गोपालदारकाया नामेन्द्रादयः, अत: किमत्र शेषैर्भावार्थशून्यैर्नामादिभिः १ न किश्चिदित्यर्थः । अत्रोत्तरमाह-'नामादओ इत्यादि' इवमुक्तं भवति- यदि सामान्येनैव भावो वस्तुत्येनाऽभ्युपगम्यते, तदा सिद्धसाध्यता, यतो नामादयोऽपि, आदिशप्दात् स्थापना-द्रव्यपरिग्रहा, भाषाः भावविशेषा इत्यर्थः । कुतः , इत्याह-यद यस्मात् तेऽपि नामादयो बस्तुनः पर्याया धर्माः, तथाहि- अविशिष्ट इन्द्रवस्तुम्युश्चरिते नामाविक भेवचतुष्टयमपि प्रतीयते-किमनेन नामेन्द्रो विषक्षिता, आहोस्थित् स्थापनेन्द्रा, द्रव्येन्द्रा, भावेन्द्रोपाइति । तता सामान्यस्येन्द्रवस्तुनवस्वारोऽप्यमी पर्यायाः, इति नामादयोऽपि भाषषिशे पस्तुत्वसाधने न किश्चित् नः सूयते; पर्याय:, भेदा, भाव इत्यनान्तरत्वात् । अथ विशिष्टार्थक्रियासाधक भावेन्द्रादिक भाषमाश्रित्य वस्तुत्वं साध्यते, तथापि न काचित् क्षतिः, यतो भावेन्द्रादेर्भावस्य विशिष्टार्थक्रियानिर्वतकरवे नामेन्द्रादिपर्यायाणामपि सः द्रष्टव्यमेव, द्रव्यरूपतया पर्यायाणां परस्परमभेदात् ॥ इति गाथार्थः ॥ ५५॥
अथवा भावमङ्गलादिकारणत्वाद् नामादीन्यपि भावमङ्गलादिरूपाण्येव, इति दर्शयन्नाह
अहवा नाम-ठवणा--दव्वाइं भावमङ्गलंगाई । पाएण भावमङ्गलपरिणामनिमित्तभावाओ ॥ ५६ ॥ __ अथवा नाम-स्थापना-द्रव्याणि भावमङ्गलस्यैवाऽङ्गानि कारणानि । कुतः १, इत्याह- 'पाएण इत्यादि' भावमङ्गलपरिणामो भावमङ्गलोपयोगो भावमङ्गलसाध्वादिपरिणतिरूपो वा, तन्निमित्तभावात् तत्कारणत्वादित्यर्थः । यच्च यस्य कारणं तत् तब्यपदेशं लभत एव, यथा 'आयुर्घतम्' 'रूपको भोजनम्' इत्यादि । लिष्टकर्मणां केषाश्चिद् नामादीनि भावमङ्गलकारणानि न भवन्त्यपि, इति पायो ग्रहणम् । मङ्गलविचारश्चेह प्रक्रान्तः तेन भावमङ्गलकारणानि नामादीन्युक्तानि, यावता भावेन्द्रादेरपि तानि कारणत्वेन द्रष्टव्यान्येव । तस्माद् भावमङ्गलादिकारणत्वाद् नामादीन्यपि तद्रूपाण्येव, इति भावस्य वस्तुत्वसाधने नामादीनामपि तत्कारणत्वात् तद् न भूयते ॥ इति गाथार्थः ।। ५६॥ ।
अथ नामादीनां भावमङ्गलकारणत्वे उदाहरणान्याह... जैह मङ्गलाभिहाणं सिद्धं विजयं जिणिंदनाम च । सोऊण, पेच्छिऊण य जिणपडिमालक्खणाईणि॥५७॥
1 अथवा नाम-स्थापना--द्रयाणि भावमङ्गलाङ्गानि । प्रायेण भावमङ्गलपरिणामनिमित्तभावात् ॥ ५६ ॥
२ यथा मङ्गलाभिधानं सिद्धं विजयं जिनेन्द्रनाम च । श्रुत्वा, प्रेक्ष्य च जिनप्रतिमालक्षणादीनि ॥ ५७ ॥ परिनिव्वुयमुणिदेहं भव्यजइजनं सुवन्नमल्लाई । ठूण भावमङ्गलपरिणामो होइ पाएण ॥ ५८ ॥ __ यथेत्युदाहरणोपदर्शनार्थः, तद्यथेत्यर्थः । मङ्गलमितिशब्दरूपमभिधानम् , तथा 'सिद्ध' सिद्धाभिधानम् । विजयाभिधानम् जिनेन्द्रादिनाम च केनचिदुचरितं श्रुत्वा कस्यचित् प्रायेण सम्यग्दर्शनादिको भावमङ्गलपरिणामो भवति, इति नाम्नो भावमङ्गलकारणचे उदाहरणम् । तथा प्रेक्ष्य चावलोक्य जिनप्रतिमालक्षणादीनि जिनप्रतिमा-स्वस्तिकादीनीत्यर्थः, आदिशब्दादनगारपदा दिपरिग्रहः, भावमङ्गलपरिणामो भवतीत्यत्रापि संवध्यते । एतत्तु स्थापनाया भावमङ्गलकारणत्वे उदाहरणम् । अथ द्रव्यस्य तत्कारणत्वे दृष्टान्तमाह- परिनितो मुक्तिं गतो योऽसौ मुनिस्तदेहम, तथा भव्ययतिर्भविष्ययतिपर्यायो योऽसौ जनस्तम्, तथा सुवर्ण माल्यादि च दृष्टा प्रायेण सम्यग्दर्शनादिभावमङ्गलपरिणामो भवतीति । अतस्तत्कारणत्वाद् नामादीन्यपि भावमङ्गलानि, इति स्थितम् ।। इति गाथाद्वयार्थः ।। ५७ ॥ ५८ ॥
ननु नामादीन्यपि यदि भावमङ्गलानि, तर्हि किं तान्यपि तीर्थकरादिवत् पूज्यानि ?, इत्याशङ्क्याह___ किं पुण तमणेगंतियमच्चन्तं च न जओऽभिहाणाई । तब्विवरीअं भावे तेण विसेसेण तं पुजं ॥ ५९ ॥
नामादीन्यप्युक्तयुक्त्या भावमङ्गलानि । किं पुनः १, यो विशेषः स उच्यते-- तदभिधानादित्रयमनैकान्तिकम् , समीहितफलसा धने निश्चयाभावात , तथाऽऽत्यन्तिकं च यतो न भवति, आत्यन्तिकप्रकर्षमाप्ततथाविधविशिष्टफलसाधन तु मङ्गलमुक्तविपरीतस्वरूपम् , तेन विशेषतो यथा तत् पूज्यम् , नैवमितराणि ॥ इति गाथार्थः ॥ ५९॥
तदेवं भिन्नवस्तुपु विशेषतश्चिन्त्यमानानां नामादीनां प्रधानेतरभावो दर्शितः, सामान्यतः पुनर्विचिन्त्यमानानां सर्ववस्तुषु प्रत्येक चतुर्णामप्यमीपां सद्भावः प्राप्यत एव, इति दर्शयन्नाह
अहवा वत्थूभिहाणं नाम, ठवणा य जो तदागारो । कारणया से दव्वं, कज्जावन्नं तयं भावो॥ ६ ॥ अथवा सर्वस्यापि घट-पटादिवस्तुनो यदात्मीयमभिधानं तद् नामः यथो कुण्डलेष्वायतत्तग्रीवो घटः, आतानवितानीभू
२ परिनिर्वतमुनिदेहं भव्ययतिजनं सुवर्णमाल्यादि । दृष्ट्वा भावमङ्गलपरिणामो भवति प्रायेण ॥ ५४॥ लावा२ किं पुनस्तदनकान्तिकमसन्तं च न यतोऽभिधानादि । तद्विपरीतं भावे तेम विशेषेण तत् पूज्यम् ॥ ५९॥ ३ अथवा वस्वाभिधानं नाम, स्थापना च यस्तदाकारः । कारणता तस्य व्यं, कार्यापनं तद् भावः ॥६॥
For Private and Personal Use Only