________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
अथाऽन्येन प्रकारेणाह-- अहवेह नमुक्काराइनाण-किरिआविमिस्सपरिणामो । नोआगमओ भण्णइ जम्हा से आगमो देसे ॥५१॥ .. अथवेह नोआगमतो भावमङ्गलाधिकारे नमस्करणं नमस्कारोऽहंदादिपणतिरित्यर्थः, स आदिर्येषां स्तोत्रादीनां ते नमस्कारादयस्तेषु मानोपयोगो नमस्कारादिज्ञानम् , क्रिया शिरसि करकमलमुकुलविधानादिका, नमस्कारादिज्ञानं च क्रिया च नमस्कारादिज्ञानक्रिये ताभ्यां विमिश्रश्चासौ परिणामश्च । स किम् , इत्याह- 'नोइत्यादि' चैत्यवन्दनाद्यवस्थायां यो नमस्कारादिज्ञान-क्रियामिश्रितपरिणामः स नोआगमतो भावमङ्गलं भण्यत इत्यर्थः । कुतः १, इत्याह- यस्मात् 'से' तस्यैव भावतः परिणामस्याऽगमो नमस्कारादिज्ञानोपयोगलक्षणो देशे एकदेशेऽवयवे वर्तते, नोशब्दश्चेहैकदेशवचनः ।। इति गाथार्थः॥५१॥
तदेवमुपदर्शितं नाम-स्थापना-द्रव्य-भावभेदतश्चतुर्विधं मङ्गलम् । एतेषु च नामादिमालेष्वायत्रयस्याऽन्योऽन्यमभेदं पश्यन् परः प्रेरयति
अभिहाणं दव्वत्तं तयत्थसुन्नत्तणं च तुल्लाई । को भाववजिआणं नामाईणं पइविसेसो १ ॥ ५२ ॥ . भाववर्जितानां भावमेकं वर्जयित्वा शेषाणां नामादीनां नाम-स्थापना-द्रव्याणामित्यर्थः कः प्रतिविशेषः न कश्चिदित्यर्थः । कुतः, इति चेत् । उच्यते-यत एतानि त्रिष्वपि तुल्यानि। कानि पुनस्तानि', इत्याह-अभिधानं तावद् नाम त्रिष्वपि तुल्यम्, नामवति पदार्थे, स्थापनायां, द्रव्ये च मङ्गलाभिधानमात्रस्य सर्वत्र भावात् । तथा द्रव्यत्वमपि त्रिष्वपि तुल्यम्, यतो "जैस्स णं जीवस्स वा अजीवस्स वा मंगलं ति नाम कीरइ" इत्यादिवचनाद् नामनि तावद् द्रव्यमेवाभिसंबध्यते, स्थापनायामपि " यत् स्थाप्यते" इति वचनाद् द्रव्यमेवाऽऽयोज्यते, द्रव्ये तु द्रव्यत्वं विद्यत एव, इति त्रिष्वपि द्रव्यत्वस्य तुल्यता | तथा तदर्थशून्यत्वं च भावार्थशून्यत्वं च त्रिष्वपि समानम् , नाम--स्थापना-द्रव्येषु भावमङ्गलस्याऽभावात् । तस्मादभिधान-द्रव्यत्व-भावार्थशून्यत्वानां समानत्वादु नाम-स्थापना-द्रव्याणां परस्परमभेदः, भावे तु तदर्थशून्यत्वं नास्ति; इत्येतावताऽसौ नामादिभ्यो विशेष्यत इति भावः ॥ इति गाथार्थः ॥५२॥ परेणैवमविशेषे प्रेरिते यो विशेषः, तमभिधित्सुः मूरिराह
. अथवेह नमस्कारादिज्ञान-क्रियाविमिश्रपरिणामः । नोमागमतो भण्यते यस्मात् तस्याऽऽगमो देशे ॥५॥ २ अभिधानं द्रव्यावं तदर्थशून्पर्व च तुल्यानि । को भाववर्जितानां नामादीनां प्रतिविशेषः॥५॥
३ यस्य ननु जीवस्य वाऽजीवस्य वा मझलमिति नाम क्रियते । आगारोऽभिप्पाओ बुद्धी किरिया फलं च पाएण । जह दीसइ ठवणिंदे न तहा नामे न दव्विदे॥ ५३ ॥ यथा स्थापनेन्द्रे आकारो लोचनसहस्र-कुण्डल-किरीट-शचीसंनिधान-करकुलिशधारण-सिंहासनाऽध्यासनादिजनितातिशयो देहसौन्दर्यभावो दृश्यते तथा स्थापनाकर्तश्च यथा सद्भूतेन्द्राभिपायो विलोक्यते; तथा द्रष्टुश्च यथा तदाकारदर्शनादिन्द्रबुद्धिरुपजायते; यथा चैनमुपसेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणादिका क्रिया संवीक्ष्यते; फलं च यथा प्रायेणोपलभ्यते पुत्रोत्पत्त्यादिकम् , न तथा नामेन्द्र नाऽपि द्रव्येन्द्रे । ततो नाम-द्रव्याभ्यां तावद् व्यक्त एव भेदः स्थापनाया इति भावः ॥ इति गाथार्थः ।। ५३ ॥ तदेवं स्पष्टतया लक्ष्यमाणत्वादादावेव नाम-द्रव्याभ्यां स्थापनाया भेदमभिधाय नाम-स्थापनाभ्यां द्रव्यस्य भेदमभिषित्सुराहभोवस्स कारणं जह दव्वं भावो अ तस्स पज्जाओ। उवओग-परिणइमओ न तहा नाम नवा ठवणा ॥५४॥
यथाऽनुपयुक्तवक्तृप्रभृतिकं साधुद्रव्येन्द्रादिकं वा द्रव्यं भावस्योपयोगरूपस्य भावेन्द्रपरिणतिरूपस्य वा यथासंख्येन कारणं निमित्तं भवति, यथा च 'उवओग-परिणइमओ त्ति उपयोगमयो भावेन्द्रपरिणतिमयश्च भावो यथासंख्येन तस्याऽनुपयुक्तवक्तृप्रभृतिकस्य साधुद्रव्येन्द्रादिकस्य वा द्रव्यस्य पर्यायो धर्मो भवति, न तथा नाम, नाऽपि स्थापनेति । इदमुक्तं भवति- यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तत्वकाले तस्योपयोगलक्षणस्य भावस्य कारणं भवति, सोऽपि वोपयोगलक्षणो भावस्तस्याऽनुपयुक्तवक्तृरूपस्य द्रव्यस्य पर्यायो भवति, यथा वा साधुजीवो द्रव्येन्द्रः सन् भावेन्द्ररूपायाः परिणतेः कारणं भवति सोऽपि वा भावेन्द्रपरिणतिरूपो भावस्तस्य साधुजीवद्रव्येन्द्रस्य पर्यायो भवति, न तथा नाम-स्थापने । अतस्ताभ्यां द्रव्यस्य भेदः, नाम्नस्तु स्थापना-द्रव्याभ्यां भेदः सामादेवाऽवसीयत इति । तदेवं यद्यपि परप्रेरितप्रकारेण नाम-स्थापना-द्रव्याणामभेदः, तथाप्युक्तरूपेण प्रकारान्तरेण भेदः सिद्ध एव, न हि दुग्ध-तक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिनापि न भेदः, अनन्तधर्माध्यासितत्वाद् वस्तुन इति भावः ॥ इति गाथार्थः ॥५४॥
तदेवं भेदव्याख्यापक्षे समर्थिते भूयोऽप्यपरेण प्रकारेणाऽऽह परःइह भावो चिय वत्थु तयत्थसुन्नेहिं किं व सेसेहिं ? । नामादओ वि भावा जं ते वि हु वत्थुपज्जाया ॥५५॥
, आकारोऽभिप्रायो बुद्धिः क्रिया फलं च प्रायेण । यथा दृश्यते स्थापनेन्द्रे न तथा नानि न द्रव्येन्द्रे ॥ ५३॥ २ भावस्य कारणं यथा द्रव्यं भावश्च तस्य पर्यायः । उपयोग-परिणतिमयो न तथा नाम नवा स्थापना ॥ ५४॥ ३ इद भाव एव वस्तु तदर्थशून्यैः किं वा भेषः । नामादयोऽपि भावा यत् तेऽपि खलु वस्तुपर्यायाः ॥५५॥
For Private and Personal Use Only