Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 51
________________ अथ प्रकरणकारकृतस्य सनमस्कारस्य जिनाऽनुवादसूत्रस्य व्याख्या जिनोक्तानुवादपरत्वात् प्रस्तुतस्य सूत्रांशस्य न मङ्गलाऽऽद्यनुबन्धचतुष्टयस्योपन्यासः, जिनोक्तौ तस्यासम्भवात् , परमाप्तत्वादेव जिनानां तद्वचनेष्वादरेण प्रेक्षावतां प्रवृत्तेः सिद्धत्वात्, स्वयं देवाधिदेवत्वात् नाऽन्यनमस्कारेण निर्विघ्नपारगमनादि, किन्तु क्षयादेवाऽऽन्तराणां, उदयादेव च जिननाम्नः स्वतःसिद्धविनाऽत्यन्ताऽभावा एते, न चैते इष्टसिद्धय-निष्टनिवारणमन्यदा ब्रुवन्ति इति नार्थः प्रयोजनाभिधेययोर्दर्शनेनेति । 'नमो वीतरागेभ्य' इत्यतो 'अरुहंताणं भगवंताण' मित्युक्तं, तदनुवादकेन प्रकरणकारेणाऽनूद्यानां जिनानां परमगुरुत्वेन नमनाऽऽदिविनयस्यावश्यकर्त्तव्यत्वादुक्तं, नानुबन्धाङ्गत्वेनेति । अधुना व्याख्याकारा द्वितीये पदकरणनाम्नि व्याख्याभेदे स्त्यादीनि पदानि भेदयित्वा व्याख्यान्ति, प्राच्यास्तु पदानां नामिका-ऽऽख्यातिको-पसर्गिक-नेपातिकमित्रैर्भेदयित्वा पदव्याख्या कुर्वाणा अन्यतमं भेदं निर्धारयामासुः, अत एव नियुक्तो-' णमो इति णेवाइयं' इत्युक्तं, आख्यातिके 'नम्' धातुजाते पदे 'प्रहत्व' मात्रं स्यात् , नैपातिकनमःपदाच निपातानामनेकत्वाद् 'द्रव्यभावसङ्कोचः पदार्थ' इति पदार्थनाम्नि व्याख्याभेदे स्पष्टितं । तत एव च पूजार्थे नमसः क्यन् क्रियते, पठ्यते च - 'देवावि तं नमसंतीति । 'अहंद्भ्यो नम' इति वाच्ये 'देवतानां गुरूणां च नाम नोपपदं विने' त्युक्तेभंगवद्भ्य इत्युपपदं । यथा शक्रस्तवे ' णमोत्थुणं अरिहंताणं भगवंताण' मिति । तदा च 'भगवद्भ्योऽर्हद्भ्यो नम' इत्यभिधेयं शक्रस्तवे, समग्रैश्वर्यादीनां भगवच्छब्दवाच्यानां षण्णामर्थानां सम्पदाक्रमेण वाच्यत्वात् आदिकरत्वाऽऽदीनि विशेषणानि पश्चादुक्तानि । अत्र तु स्वतन्त्रतया भावाऽऽर्हन्त्यनिबन्धनानामतिशयानां चतुर्णा वक्तव्यत्वात् प्रागेव' विशेषणानि । ___ यद्यपि भगवच्छब्देन भावार्हन्त्यमागच्छेत्, परं च्यवनादा मोक्षगमनपि भावाऽऽहन्त्याऽभिगमपक्षे कैवल्यदशावर्तिभावाऽहत्परिग्रहायाऽऽवश्यकानि वीतरागादीनि चत्वारि विशेषगानीति । यद्यपि उपशान्तमोहावस्थायामस्ति वीतगगता, परं न साऽत्र, यतः प्रतिपातपर्यवसाना सा; न च जिनानां छामस्थ्येऽपि तथाप्रतिपातितेति क्षपकश्रेणिजन्यैव वीतरागावस्था स्वरूपतो ग्राह्या । किञ्च वीतरागतेयं सर्वज्ञताप्रापगप्रत्यला ग्राह्या, पुरतः 'सर्वज्ञेभ्य' इत्युक्तेः, ' सार्वज्यं च क्षीणमोहानामेव वीतरागाणां भवती' ति क्षीगमोहवीतरागतैव वीतरागपदेन ग्राह्येति, सूर्योदये उदितेऽरुणोदयकथनं निष्प्रयोजनं यथा, ततः पूर्वं तस्यावश्यम्भावात् । इत्थमेव माया-लोभरूपरागस्य क्षयात् प्रागेव क्रोध-मानरूपस्य द्वेषस्य हास्याऽऽदिषट् फरूपस्य मोहस्य च क्षयोऽवश्यं भवतीति वीतद्वेष-मोहवचनेन न कोऽप्यर्थः कोविदानां, तथापि स्वरूपदर्शनार्थमितरतीर्थीयदेवतानां च व्यवच्छेदार्थ यदि च वीतद्वेष-वीतमोहोक्तेरावश्यकता तर्युपलक्षणतया वीतद्वेष-बीतमोहता ग्राह्या, उप

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193