Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 159
________________ (२३) नुष्ठानानां विधेयस्वमस्ति क्वचिदः स्तासां चरदिक्त्वेनाऽपि व्यवहारो, “विशेपावश्यकादिष्वपि 'जाई जिणचेइयाई वे' त्यादि दिशमधिकृत्य, क्षेत्रमधिकृत्य 'जिणहरे वे'त्युक्तं, ततो यदि यथाईमनुनतप्रतिपित्सुभिरवश्यं प्रशस्ता दिशोऽप्यानयितव्या इति । ...... . तत्र दिक्शुद्धिरप्युचितविधितयैवावधार्येति । : :: विहिवहमाणी धण्णा, विहिपक्खाराहगा सया धण्णा। जम्हा विहिअप्पओसो वा, होइ दूरभव्वऽभव्वाणं ॥१॥ -तिपञ्चाशकवचनं, *."जह भोयणमविहिकय"-मित्यादिप्रकरणान्तरगतं च वचनमनुस्मरतां मध्यानामुचित विधानेनैवानुव्रतानां प्रतिपत्तिः कर्तव्येत्येवं विधाने न कदाचनापि भाविन्युपेक्षेति ।.. ... ___ एवमात्मनः शक्तिमनतिक्रम्य तामनिगृह्य च यथोचितविधानेनाऽनुव्रतानां प्रतिपत्तिर्विधेयतया योऽभिहिता सा भावसारमेव कार्या, यतो हि जीवक्षेत्रे उप्तं धर्मबीजं यत् फलमर्पयति तद् भावानुसारेणैव क्रियायाः शुभाऽभ्यास-संस्काराऽऽदिद्वाराऽऽवश्यकत्वेपि धर्मस्य फलं प्राप्यते । यतः सर्व मप्यनुष्ठानं तीर्थस्य प्रवृत्त्यादौ जीवानां धर्मस्य प्राप्त्यादौ चाऽत्यन्तमुपयोग्यपि सत् इच्छा-शास्त्र योगयुग्मपर्यन्तमनुधावति, परं भावस्तु तत्र सर्वत्र प्रवृत्त्यादौ व्याप्यापि सामर्थ्ययोगमनुरुणद्धि। . किञ्च-श्रूयते भगवतो नेमिनाथस्य श्रीकृष्णवासुदेवप्रेरितेन पालकेन पूर्वमेव प्रातर्वन्दनं कृतं, परं तत्र भावशून्यत्वादश्वप्राप्तिरुपं लौकिकं फलमपि नाऽऽप्तं, शाम्बेन च भावतो गृहेऽवस्थायाऽपि कृतस्य वन्दनस्य फलं लौकिकमश्वरुपं प्राप्तं, भगवता च तस्यैव वन्दनमुपबंहितं ।।। किञ्च-'उक्कोसं दव्यथयं, आराहिय जाइ अच्चुयं सड्ढो। . . : ....... भावथएणं पावइ, अंतमुहुत्तेण णिव्याण ॥१॥ .. .. __-मितिगाथयाऽपि भावस्यैव सारतमत्वमाख्यातं. ___इको वि णमुक्कारो, जिणवरवसहरस बंद्धमाणस्स। संसारसागराओ, तारेइ गरं व णारिं वा' ॥१॥.. —इत्यपि सिद्धस्तवोक्तं माहात्म्यं भावस्यैव सारतमत्वमभिव्यक्ति

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193