________________
(२३)
नुष्ठानानां विधेयस्वमस्ति क्वचिदः स्तासां चरदिक्त्वेनाऽपि व्यवहारो, “विशेपावश्यकादिष्वपि 'जाई जिणचेइयाई वे' त्यादि दिशमधिकृत्य, क्षेत्रमधिकृत्य 'जिणहरे वे'त्युक्तं, ततो यदि यथाईमनुनतप्रतिपित्सुभिरवश्यं प्रशस्ता दिशोऽप्यानयितव्या इति । ...... . तत्र दिक्शुद्धिरप्युचितविधितयैवावधार्येति ।
: :: विहिवहमाणी धण्णा, विहिपक्खाराहगा सया धण्णा। जम्हा विहिअप्पओसो वा, होइ दूरभव्वऽभव्वाणं ॥१॥
-तिपञ्चाशकवचनं, *."जह भोयणमविहिकय"-मित्यादिप्रकरणान्तरगतं च वचनमनुस्मरतां मध्यानामुचित विधानेनैवानुव्रतानां प्रतिपत्तिः कर्तव्येत्येवं विधाने न कदाचनापि भाविन्युपेक्षेति ।.. ...
___ एवमात्मनः शक्तिमनतिक्रम्य तामनिगृह्य च यथोचितविधानेनाऽनुव्रतानां प्रतिपत्तिर्विधेयतया योऽभिहिता सा भावसारमेव कार्या, यतो हि जीवक्षेत्रे उप्तं धर्मबीजं यत् फलमर्पयति तद् भावानुसारेणैव क्रियायाः शुभाऽभ्यास-संस्काराऽऽदिद्वाराऽऽवश्यकत्वेपि धर्मस्य फलं प्राप्यते । यतः सर्व मप्यनुष्ठानं तीर्थस्य प्रवृत्त्यादौ जीवानां धर्मस्य प्राप्त्यादौ चाऽत्यन्तमुपयोग्यपि सत् इच्छा-शास्त्र योगयुग्मपर्यन्तमनुधावति, परं भावस्तु तत्र सर्वत्र प्रवृत्त्यादौ व्याप्यापि सामर्थ्ययोगमनुरुणद्धि।
. किञ्च-श्रूयते भगवतो नेमिनाथस्य श्रीकृष्णवासुदेवप्रेरितेन पालकेन पूर्वमेव प्रातर्वन्दनं कृतं, परं तत्र भावशून्यत्वादश्वप्राप्तिरुपं लौकिकं फलमपि नाऽऽप्तं, शाम्बेन च भावतो गृहेऽवस्थायाऽपि कृतस्य वन्दनस्य फलं लौकिकमश्वरुपं प्राप्तं, भगवता च तस्यैव वन्दनमुपबंहितं ।।।
किञ्च-'उक्कोसं दव्यथयं, आराहिय जाइ अच्चुयं सड्ढो। . . : ....... भावथएणं पावइ, अंतमुहुत्तेण णिव्याण ॥१॥ .. ..
__-मितिगाथयाऽपि भावस्यैव सारतमत्वमाख्यातं. ___इको वि णमुक्कारो, जिणवरवसहरस बंद्धमाणस्स।
संसारसागराओ, तारेइ गरं व णारिं वा' ॥१॥.. —इत्यपि सिद्धस्तवोक्तं माहात्म्यं भावस्यैव सारतमत्वमभिव्यक्ति