________________
कचाऽऽरभ्य सम्यग्दर्शनात् शैलेशीमपवर्ग च यावत् याश्चाऽऽत्मगुणानामाप्तयस्ताः सर्वा मपि तथाविधभावप्रभवा एव ।
किञ्च-वैचित्र्याद् भावस्य सर्वज्ञानामप्यप्राप्यः सिद्धेर्योग्यत्वमापादयन् सामर्थ्ययोगस्थ पर्यन्तः शास्त्रकृद्भिर्योऽभिमतः सोऽपि भावसारतापक्षमेव पोषयति, ततो युक्तमुक्तं 'भावसार 'मिति ।
यच्चाऽत्राऽत्यन्तमिति भावसारस्यापि विशेषणं तत् अनुवतानां दीर्घविचारपूर्वकं ग्रहण ज्ञापयति ।
अत एव सर्वविरतेः प्रतिपत्तिकालः समयमागमेऽभिप्रेतः, परं देशविरतेस्त्वान्तमाहूर्तिक एव कालो व्याख्यातः । युक्तिश्चात्र सर्वविरतानां सर्वथा निरभिप्वङ्गत्वं, तेन च समनसावद्यत्यागः, स च न तथाविधं विचारमपेक्षते, यादृशो गृहस्थानां परिणामतो निरभिष्वङ्गाणां हेतु-स्वरुपाभ्यां साभिष्वङ्गाणां त्यागो निरभिष्वङ्गेतरद्वयमाश्रित्य तस्य प्रवृत्तत्वात् ।
अत उक्तमणुव्रतप्रतिपत्त्यधिकारे 'अत्यन्तं भावसार'मिति ।
अत्र 'पडिवज्जेज्जे ति यदुक्तं, तत् प्रतिपत्त्यहाणां विधाय प्रतिपत्तिमेव ग्रहणं कार्यमणुव्रतानामिति सूचनाय, यथा हि शास्त्रेषु दानार्थस्य समानत्वेऽपि सामान्येन दीनाऽनाथ-कार्पटिकानां दानाऽवसरे 'दलेमाणे' इत्याधुच्यते, परं प्रतिपत्तेरहेभ्यो यदा सत्कारपूर्वकं सभक्तिकं दानं दातव्यं भवति, तदा 'पडिलामेमाणे' इत्यादयः शब्दाः प्रयुज्यन्ते ।
अत एव च श्रीभगवत्यां यदसंयतेभ्यो दाने एकान्त गपं फलमुक्तं तत् सङ्गच्छते । तत्र प्रासुकादिविशेषणं यस्मात् संयतानामुचितं दाने तदुक्तं, तथा 'पडिलामेमाणे' इत्यादि चोक्तं तथा च नाऽनुकम्पादिदानानां व्युच्छेदप्रसङ्ग एकान्तपापानुबन्धिता वा।
__ततश्च भगवद्भिरर्हद्भिः क्षायिकादिसम्यक्त्वलभ्यजिननामकर्मण उदयात् यत् प्रवर्तितं सांवसरिकं दानं तस्य शासनप्रभावकताऽनुकम्पाहेतुता च न विरुध्यते इति ।
आगमेष्वपि च परिव्रज्याप्रतिपत्यादिषु 'पडिवज्जइ'त्ति 'पडिवज्जेऊणे' त्यायेवोच्यते ।
किश्चाऽत्र पञ्चानामानुव्रतानां द्वादशानां वा व्रतानामुद्देशाभावात् ' तंजहे 'ति तद्यथेत्यर्थकमखण्डमव्ययमन्यत्र प्रेक्तक्रमोपदर्शकतया पाठयमानमप्यत्र तद्यथेत्यखण्डमव्ययं प्रतिपत्तिरीतेः प्रदर्शनार्थमवसेयं.
तथा चानुव्रतानां वक्ष्यमाणरीत्या प्रतिपत्ति; कार्या, तथा च स्थूलप्राणातिपातविरमणादीनां यथाक्रमत्वं ज्ञापितं ।