SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अंत एव पञ्चानामनुव्रतानां द्वादशानां व्रतानां वा भङ्गकसङ्ख्यायां न क्रमोत्क्रमजनिता ङ्गाः, प्रथमादित्वं चैवमेव स्थूलप्राणातिपातविरमणादीनां तत एव सादित्वं मन्तव्यं । . किञ्च-'थूलगपाणाइवायविरमण' मित्यत्र स्थूलानां त्रसानां प्राणातिपाताद्विरमणे सत्यपि । त् कप्रत्ययं समानीय स्थूलकमित्युच्यते, तत् स्थूलप्राणातिपातविरमणस्याऽप्यल्पार्थत्वबोधनाय । यतस्त्रसानां वधाद्विरमणमपि सङ्कल्पादिजनितात् कृतं, नाऽऽरम्भादिजनितात् , न च त्रिविधविधादिभिर्भङ्गैरपि, किन्तु त्रिविध-त्रिविधादिना तद्विरमणं विधायानुमतिस्तु नैव प्रत्याख्याता, न च नद्विरमणमिष्टं गृहस्थावासान्मतमिति स्वल्पार्थे कप्रत्ययः समानीतः । किञ्च-स्थूलप्रागिनोऽत्र स्थूलपाणशब्देन वाच्याः, यतः न प्राणिनां तारतम्येन हिंसकानानघस्य तारतम्यं, न च प्राणानां सङ्ख्यायास्तारतम्येनापि, किन्तु प्राणानां माहात्म्यानुसारेणैव नापानां तारतम्यं, तत एव नाऽनभोजननिवृत्तिमाधाय मांसभोजनकरणमुचितं, न च ऋषीणामाबाधामुपेक्ष्य समस्तस्यापि जगत आवाधायाः परिहरणं लाभायेति । तत्राऽल्पत्वं सङ्कल्पादिजस्य वधस्य करणात् विरमणस्याऽल्पत्वं, त्रिविध-त्रिविधत्वेनाsकरणात् । अत एवाऽत्र सर्वस्मात् प्राणातिपाताद्विरमणमितिवन्नाऽसमासः, किन्तु सर्वत्राऽल्पत्वस्य विवक्षणात् स्थूलकप्राणातिपातविरमणमिति समस्तनिर्देशः । । ननु श्रमणोपासकानां केषाश्चिदेकादशीप्रतिमां प्रतिपन्नानां प्राणातिपातात् त्रिविध-त्रिविधेनापि विरतिर्भवतीति नियुक्तिकारादिवचनात् किं तादृशानां तेषां सर्वस्मात् प्राणातिपाताद् विरमणं भवतीति ? चेत् । सत्यं । नियुक्तिकारादिवचनात् तेषां तादृशानां केषाञ्चिद्भवतु त्रिविध-त्रिविधेन प्राणातिपातानिवृत्तिः, परं सर्वस्मात् प्राणातिपाताद्विरमणस्य प्रत्याख्यानं तु अगारान्निष्कग्याऽनगारितां प्रतिपन्नानामेव भवति, देशविरतिहि अगत्याख्यानकषायक्षयोपशमजन्या, सर्वविरतिस्तु प्रत्याख्यानावरणक्ष: योपशमादिजन्या । अत एव समुत्पन्नकेवला असम्भाव्यमानपापबन्धा अपि न प्रतिपन्नाश्चेत्सर्वविरतिं प्राग्, पश्चादपि प्रतिपद्यन्ते चिरायुष्काः स्वलिङ्गसिद्धा एव भवन्तीति । तथाच सावधप्रत्याख्यानाय करोमि भदन्त ! सामायिक-मित्यादेउच्चारणाऽभावेऽपि करणं, गृह्यादिलिङ्गत्यागेन स्वलिङ्गस्य स्वीकरणं न राग-द्वेपस्वरूपं, नवा राग-द्वेषयोः कार्य तत् , निरभिष्वङ्गरूपत्वात् । __एवमेव यावजीवं देव-गुरु-धर्मेषु दृढ आन्तरः प्रतिवन्धो न, कषायरुपस्तेन तस्य यावज्जीवमवस्थानेऽपि नाऽनन्तानुवन्धित्वमिति । अन्यथा हि वीतरागाणां सर्वज्ञानां मोक्षमार्गस्योपदेशोऽन्येपां
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy