________________
(२६) तत्स्वीकारणं नैव युक्तं स्यात् , न च तीर्थस्थापनादि स्यात् , तत्वतो विषयसुखसाधनानामेव राग-द्वेप-मोहकार्यत्वमिति ध्येयमिति ।
ननु श्रमणोपासकाः स्वशक्तिमनतिक्रम्याऽनिगृह्य य यथाशक्ती तिवचनानुसारेण प्रतिपद्यरन् अनुव्रतानि, परं प्रतिपत्तिशब्देन तेषामनुव्रतानां प्रतिपत्तिस्तु गुरोः समीप एव कर्तव्या ।
कथ्यते च 'गुरुमूले सुयधम्मो पडिवज्जेज्जा इत्तरं इयरं चे-ति,
परं गुरवः कथं तेषां तानि तथाविधतया प्रत्याख्यापयन्ति ? यतो गुग्वो हि त्रिविध त्रिविधेन.. प्राणातिपाताऽऽदिभ्यो निवृत्ताः, तथानिवृत्तानां च तेषां प्राणवधादीनामनुमतेः स्पष्टतयाऽस्ति निषेधः, अनुमतिश्च सहवासाऽनिषेध-प्रशंसेति त्रिविधतया गीयते, तथा मुत्कलय्यानुमति श्रावकाणां प्रत्याख्यापयितृणां गुरुणां कथं नाऽनुमतिदोषदुष्टत्वमिति चेत् ? सत्यं !
परं गुरूणामेप एव धर्मो यदुत-प्राक् सर्वपापस्थानेभ्यस्त्रिविध-त्रिविधनिवृत्तिरूपां सर्वविरति-.. मेव देशयन्ति, परं श्रोतारो यदि तां प्रतिपत्तुमसहा अनुद्यताश्च, तर्हि ते श्रोतारः सर्वथा पापस्थाननिवृत्तिरहिता भा भूवन्निति देशविरतिं पश्चात् कथयन्ति, तथा च गृहिपुत्रमोक्षज्ञातेन त्रिविधाऽऽदिना पापस्थानान्यमुंचतां श्रावकाणां द्विविध-त्रिविधादिनापि प्रत्याख्यापयन्तीति । साधूनां तथा प्रत्याख्यापयतां तथाविधं प्रवृत्तत्वात् न कणिकापि दोषस्य । .
यद्यप्यनुत्रतानां प्रतिपत्तिर्हि विध-त्रिविधादिना श्रावकाणां भवति, परं मिथ्यात्वस्य तु त्रिविध-त्रिविधेनाऽपि भवति प्रत्याख्यानं परं तत् प्रत्याख्यानं मिथ्यात्विसहवासनिपेधाऽऽदिना न भवति, नगरादिनिवासिनां नृपादीनां मिथ्याक्त्वस्याभावस्य नियमाऽभावात् ।
___ अत एव सम्यक्त्वे राजाऽभियोगाद्या आकाराः पडभिधीयन्ते, परं श्रद्धारूपस्य सम्यक्त्वस्य स्वीकाराद् विपरीतश्रद्धारूपं मिथ्यात्वं विवक्ष्य तस्य त्रिविध-त्रिविधेनाऽपि स्यादेव प्रत्याख्यानं, राजाभियोगादयस्त्वाकारा 'णो मे कप्पइ अज्जप्पभिई अण्ण्उत्थिये त्यादिरूपतया स्वीकृतस्य तथाविध- . श्रद्धापूर्वकस्याऽन्यतीर्थीयदानादि क्रियानिपेधरूपस्य सम्यक्त्वस्य ।
अत एव राजांभियोगाद्याकारप्रसङ्गे तथाक्रिया विपया एव दृष्टान्ता आवश्यकवृत्त्यादिषु... कथ्यन्ते इति ।
ननु 'मूलं द्वारं प्रतिष्ठान-माधारी भाजनं निधिः । . द्विपट्कस्यास्य धर्मस्य, सम्यक्त्वमिदमुच्यते ' ॥१॥.. .