________________
(२७)
इति वचनात् 'सम्मत्तमूलं पंचाणुव्यझ्य' मित्यादिवचनाच्च श्रमणोपासकैरादौ सम्यक्त्वमेव स्वीकार्य भवति, अत्र तु कथं तत्प्रतिपत्तिनोंक्तेति ? प्रथमेन पापप्रतिघात-गुणवीजाधानसूत्रेणैव सम्यक्त्वस्याऽर्थतो महता प्रबन्धेनोक्तत्वादत्र नोक्तमिति, परं सम्यक्त्वस्य स्वीकारोऽनुव्रतानामादावावश्यक एव। .
अत एवोच्यते-'इत्थ उ समणोवासगधम्मे' इत्यत्राऽत्र शब्देनार्हतधर्मे इत्येव कथ्यते, युक्तमेव च तत् , यतः स्थूलजीववधाद्विरतिं कुर्ववद्भिरवश्यं पृथ्व्यादीनां सूक्ष्माणां जीवतया स्वीकारः कार्य, स च जैनशासनश्रद्धानरूपे सम्यक्त्व एव, अत एवोच्यते 'सत्येव सम्यक्त्वे न्याय्यमणु बतादीनांग्रहण ' मिति ।
प्राणातिपातेत्यत्र अतिपातशब्देन ज्ञाप्यते इदं यदुत-हिंस्यैयद्यपि तथाविधमायुष्कमसातं च प्राकृतं, यस्योदयेन तथाविधमसातं स आसाद्य वियोज्यते प्राणेभ्यः, परं हिंसकानां तुपाणात्यये येत् प्रेरणं निमित्तभावः सङ्कलेशश्च तेषां वर्जनीयतास्ति, ततो जायमानस्य प्राणवियोगस्य व्यापारजमतिपातनं तस्य प्रचुरपापबन्धहेतुत्वाद् वर्जनमत्र । - श्रीतत्वार्थादावपि 'प्रमत्तयोगात् प्राणव्यपरोपण' मित्युक्त्वा गिजंत एव प्रयोग उपन्यस्तः । तथा च हिंस्यानां तथाविधकर्मोदयादेव जायते हिंसनं, तत्र के वयमित्यधार्मिकाणां प्रलापों न श्रोतुमपि योग्य इति ।
ननु प्रतिपन्नाणुव्रतानां मांसभक्षणं कल्पते न वा ? यतो मांसार्थ प्राणिनां वधं वन्ये कुर्वन्ति. न च मांसे मृतानां जीवानां अंशोपि विद्यते, निरंशतया तदा श्रुतानां प्रेत्य गतेतित्वात् , दृष्टे श्रुते सल्पिते च मांसोत्पादने दोपो भवतु, परमदृष्टादिविशिष्टस्य तस्य भक्षणं कथं दुष्टमिति चेत् । श्रुणु ! प्राक् तावत् नरकस्यावन्ध्यं कारणं मांसभक्षणं, यतः श्रीआपपातिकश्रीस्थानाङ्ग-भगवत्यादिषु नारकायुर्वन्धकारकेपु चतुर्पु कारणेषु 'कुणिमाहारेणं ति वचनेन स्पष्टतया मांसस्य यादृशताशस्यापि नारकायुष्कहेतुतया निर्दिष्टं ।
किच-सर्वविरत्यादिप्रतिपत्तेरसहिष्णोर्यावत् सम्यक्त्वमप्यनङ्गीकुर्वतामपि जनानां मांसभक्षणादेवश्यपरिहारो देशनीयतयोक्तः ।
किञ्चाऽकृतादिविशेषणस्यापि परिभोगे तदुत्थदोषस्यापातः, अत एवाऽकृतादिविशिष्टस्याप्याधाकर्म गो भोगे साधूनामष्टकर्मबन्धादिदोषः स्पष्टतया शास्त्रे उक्तः, तस्मात् अप्रतिपन्नसम्यक्त्वादिभिरपि नरकभीरूभिर्वज्यं चेन्मांस, तर्हि प्रतिन्नानुव्रतानां तु स्वप्नान्तरेऽपि तद्भक्षणस्य स्यादयोग्यत्वमिति ।