Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
अंत एव पञ्चानामनुव्रतानां द्वादशानां व्रतानां वा भङ्गकसङ्ख्यायां न क्रमोत्क्रमजनिता ङ्गाः, प्रथमादित्वं चैवमेव स्थूलप्राणातिपातविरमणादीनां तत एव सादित्वं मन्तव्यं । .
किञ्च-'थूलगपाणाइवायविरमण' मित्यत्र स्थूलानां त्रसानां प्राणातिपाताद्विरमणे सत्यपि । त् कप्रत्ययं समानीय स्थूलकमित्युच्यते, तत् स्थूलप्राणातिपातविरमणस्याऽप्यल्पार्थत्वबोधनाय ।
यतस्त्रसानां वधाद्विरमणमपि सङ्कल्पादिजनितात् कृतं, नाऽऽरम्भादिजनितात् , न च त्रिविधविधादिभिर्भङ्गैरपि, किन्तु त्रिविध-त्रिविधादिना तद्विरमणं विधायानुमतिस्तु नैव प्रत्याख्याता, न च नद्विरमणमिष्टं गृहस्थावासान्मतमिति स्वल्पार्थे कप्रत्ययः समानीतः ।
किञ्च-स्थूलप्रागिनोऽत्र स्थूलपाणशब्देन वाच्याः, यतः न प्राणिनां तारतम्येन हिंसकानानघस्य तारतम्यं, न च प्राणानां सङ्ख्यायास्तारतम्येनापि, किन्तु प्राणानां माहात्म्यानुसारेणैव नापानां तारतम्यं, तत एव नाऽनभोजननिवृत्तिमाधाय मांसभोजनकरणमुचितं, न च ऋषीणामाबाधामुपेक्ष्य समस्तस्यापि जगत आवाधायाः परिहरणं लाभायेति ।
तत्राऽल्पत्वं सङ्कल्पादिजस्य वधस्य करणात् विरमणस्याऽल्पत्वं, त्रिविध-त्रिविधत्वेनाsकरणात् । अत एवाऽत्र सर्वस्मात् प्राणातिपाताद्विरमणमितिवन्नाऽसमासः, किन्तु सर्वत्राऽल्पत्वस्य विवक्षणात् स्थूलकप्राणातिपातविरमणमिति समस्तनिर्देशः । ।
ननु श्रमणोपासकानां केषाश्चिदेकादशीप्रतिमां प्रतिपन्नानां प्राणातिपातात् त्रिविध-त्रिविधेनापि विरतिर्भवतीति नियुक्तिकारादिवचनात् किं तादृशानां तेषां सर्वस्मात् प्राणातिपाताद् विरमणं भवतीति ? चेत् । सत्यं । नियुक्तिकारादिवचनात् तेषां तादृशानां केषाञ्चिद्भवतु त्रिविध-त्रिविधेन प्राणातिपातानिवृत्तिः, परं सर्वस्मात् प्राणातिपाताद्विरमणस्य प्रत्याख्यानं तु अगारान्निष्कग्याऽनगारितां प्रतिपन्नानामेव भवति, देशविरतिहि अगत्याख्यानकषायक्षयोपशमजन्या, सर्वविरतिस्तु प्रत्याख्यानावरणक्ष: योपशमादिजन्या । अत एव समुत्पन्नकेवला असम्भाव्यमानपापबन्धा अपि न प्रतिपन्नाश्चेत्सर्वविरतिं प्राग्, पश्चादपि प्रतिपद्यन्ते चिरायुष्काः स्वलिङ्गसिद्धा एव भवन्तीति ।
तथाच सावधप्रत्याख्यानाय करोमि भदन्त ! सामायिक-मित्यादेउच्चारणाऽभावेऽपि करणं, गृह्यादिलिङ्गत्यागेन स्वलिङ्गस्य स्वीकरणं न राग-द्वेपस्वरूपं, नवा राग-द्वेषयोः कार्य तत् , निरभिष्वङ्गरूपत्वात् ।
__एवमेव यावजीवं देव-गुरु-धर्मेषु दृढ आन्तरः प्रतिवन्धो न, कषायरुपस्तेन तस्य यावज्जीवमवस्थानेऽपि नाऽनन्तानुवन्धित्वमिति । अन्यथा हि वीतरागाणां सर्वज्ञानां मोक्षमार्गस्योपदेशोऽन्येपां

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193