Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 168
________________ (३२) कूटतुलादिवत् प्रतीतिनाशको दण्डादिहेतुश्चेति सोऽप्यत्राऽतिचारत्वेनाऽऽख्यायमानो नाऽनुचितीमञ्चति । विरुद्धराज्यातिक्रमस्तु यद्यपि स्तैन्यरुपो व्यावहारिकाणां नास्ति, परं राज्ञामाज्ञासारत्वात्तत्खण्डन-विराधने महतोऽपराधस्य कारणतयाऽभिमते इति तस्यातिक्रमस्याऽतिचारता, बहुधा च तथाविधलोभग्रस्ततया सोऽतिक्रमो भवति, भवति च तत्र बहुधा तथाविधक्रय-विक्रयायेव हेतुरित्यदत्तादानविरमणस्यातिचारता तस्योदितेति । यद्यप्यत्र स्तेनाहताऽऽदानादीनामेवातिचारतोक्ता, परं सर्वाङ्गिरक्षामूलत्वाज्जैनधर्मस्योचितां प्रतिशतं रुप्यकान् रुप्यकपञ्चकादिरुपामधिककलाऽऽदानमपि नोचितं । तथा धान्यादीनां क्षयादौ दुर्भिक्षादिषु च स्वीयानामपि धान्यादीनां मर्यादाधिकद्रव्यादिना विक्रयणमपि एतव्रतवतामनुचिततयैव श्रावकज्ञप्तिवृत्यादावाग्नातं । अत्र चाऽधिककलाग्रहणादिपु नृपत्वादिभिर्यद्यपि दण्ड्यत्वं नास्ति, तथापि आपत्तिपतितेपु परेषु दयाशून्यत्वं निरशूकत्वमवमत्वं चाऽवश्यं सामान्यलोकेनाऽपि गण्यते इति परिहार्यमवश्यं । तृतीयाऽणुव्रतविषयताऽनुचितकलाग्रहणादीनां साक्षाद्धिंसाऽलीकरूपत्वात् चौरादिवत्तथाविधाऽनुचितकलादीनामादाने लोके खितापात्रत्वाच्च । यद्यपि कलादानादिरूपः स्ववस्तूनां यथेच्छं मूल्पादानादिरुपो व्यवहारोऽस्ति व्यापाररुपतया, परं लौकिक गतस्य व्यवहारस्य तत्र तथाविधाऽधमत्वात् चौर्यादिवदयोग्यत्वाम् स्थूलाऽदत्तादानतेति । यद्यप्यत्र चतुर्थेऽणुव्रते स्थूलमैथुनविरमणमित्येवोक्तं, तथापि आदौ तावात् स्थूलमैथुनं द्विधा-एक तावत् विद्यमानपरिणीतदारेभ्यः परेषां सर्वेषां दाराणां वर्जनात् , ययाऽऽनन्दादिमिर्दशभिः श्रावकैरुपासकदशाङ्गवर्णितैः कृतं तत् , अपरं च परदारगमनवर्जनात् । ___ परदारत्वं च यद्यपि शास्त्रेषु परपरिणीत-परिगृहीतानामाम्नायते, ततश्चाऽपरिगृहीतागमनादीनामतिचारता कथ्यते, परं चारित्रादिपु सामान्येन तद्वर्जनमाख्याय वेश्याऽनाथ-परापरिणीतपरिगृहीतानां परदारत्वं मनीषिभिराम्नायते । ' अत्र च विद्यमानः स्वदाराः कालान्तरेऽपि परिणीयाऽऽदत्ता दाराः स्वदारत्वेनाख्याय स्वदारसन्तोष एव परदारगमनविरमणतयाऽऽम्नात इति । यद्यपि श्रावकमज्ञप्त्यादिषु तुर्येऽणुव्रते स्वदारसन्तोपिणोऽतिचारत्रयं अनङ्गक्रीडाऽऽदिरूपं परदारवर्जिनां चाऽतिचारपञ्चकमित्वरगमनाऽऽदिरुपमिति भि: नाऽऽख्यातं, तथापि श्री उपासक

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193