Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
।
अन्यथाऽनुपधो मायी, स्याद्य धर्मो हितः सदा। तथ्याऽतथ्यैरसौ साध्यो-ऽस्वीकृतौ सर्वथा त्यजेत् ॥८६।। अस्थानग्लानभैषज्या-र्थत्यागज्ञाततो यथा । कश्चिन्ना विपिने माता-पितृयुक्तस्तदाश्रितः ॥८७|| गच्छेत्तयोराशुघाती, नृमात्रासाध्य उद्भवेत् । संभवद्भेषजो रोग-स्तत्र तत्प्रतिबन्धतः ॥८८॥ एवमालोचयेत् कश्चिद् , नूनं (नहि) भेषजमन्तरा । जीविष्यत इमौ प्राप्ते-ऽगदे संशय ईक्ष्यते ॥८९।। एतौ कालसही ज्ञात्वा, संस्थाप्याऽगदहेतवे । वृत्यै स्वस्य त्यजन् साधुस्त्यागश्चाऽत्याग एव च ॥९०॥ अत्यागस्तु भवेत्त्यागः, प्रधानं विदुषां फलं । धीराः फलं विलोकन्ते, सम्भवादगदाऽऽश्रयात् ॥९१॥ जीवयेत्तौ सतामेतदुचितं तद्वदत्र च । माता-पितृयुतः शुक्ल-पाक्षिकः पुरुषोत्तमः ॥९२॥ भवकान्तारपतितो, विहरेत् धर्मसङ्गतः । तयोर्विनाशकस्तत्रा-प्राप्तबीजाद्यसाध्यकः ॥९३।। सम्भवत्प्सम्यकत्वादि-भेषजो मरणादिदः ।
कर्मरोगः समुद्भवेत् ॥९४॥ धर्मस्य प्रतिबन्धेन, शुक्लपक्षः पुमांस्ततः । एव मालोचयेदेतौ सम्यक्त्वाऽऽद्यगदं विना ॥९५|| . ध्रुवं विनंक्ष्यतः प्राप्तौ, विकल्पः तस्य विद्यते । एतौ कालसही ज्ञात्वा, संस्थाप्यैटिकचिन्तया ॥९६।। सम्यकत्वावगदार्थ, सद्गुर्वादेयोंगभावतः । कृत्य करणेन स्वां वृत्ति, कत्तुं संयममाश्रयन् ॥९७|| स्यजन् सिद्धय भवेत् साधुस्त्यागोऽत्यागश्च तत्त्वतः । मिथ्याभावनयाऽत्यागोऽत्र फलमुत्तमम् ॥९८||

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193