Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
७
. (४९)
अवगम्य विधानेन, प्रतिपद्येत तत्क्रियां ।
वृत्ति यादृच्छिक रुद्ध्वा, तुच्छं पथ्यं च स्वादति ॥१२५॥
स व्याधिना मुच्यमानो, निवर्त्य मानवेदनः । वारोग्यं वर्धमान तद्भावो लाभनिर्वृतः ॥ १२६ ॥
बोधाद् व्याधिशमारोग्ये, सिरावेधेऽपि निर्व्यथः । अनाकुलोऽभीष्टसिद्धः, क्रियायामुपयोगभाक् ॥ १२७॥ यमे तपस्यगणयन्. पोडामुपसर्जनेऽव्यथः । वर्तेत शुभलेश्यायां, वैद्यं च बहु मन्यते ॥ १२८ ॥ यथा तथा कर्मव्याधि-युतो जन्मादिवेदनः । ज्ञातं दुःखस्वरुपत्वान्- निर्विण्णस्तत्त्वतस्ततः ॥ १२९ ॥ गुरुक्तक्रियया कर्म-व्याधि बुद्ध्वा विधानतः । प्रपन्नः सत्क्रियां दीक्षां प्रमादाचाररोधकः ॥१३०॥ असारशुद्धभोजी सन्, कर्मव्याधिमुपद्रवन् । ध्यानं हीनं तनूकुर्वं-श्चरणाऽऽरोग्यमाश्रयन् ॥१३१॥ वर्धमानोऽनघे भावे, तल्लाभे जातनिर्वृतिः । सत्क्रिया प्रतिबन्धेन, परीषहोपसर्गयोः ॥१३२॥
"
भावेऽपि तत्त्वसंवित्तेः कुशलाऽऽशयवृद्धियुक् । स्थिराशयत्वेन धर्मो-पयोगात् स्तिमितः सदा ॥ १३३॥ वर्धते शुभलेश्यासु, गुरुं च बहु मन्यते । निसर्गभावतोऽसङ्ग-प्रवृत्तेर्महती क्रिया ॥ १३४||
भावसारा विशेषण, भगवद्बहुमानतः । तदाज्ञा मन्यते यो मां, स गुरुं बहु मन्यते ॥ १३५॥ अन्यथा पुंश्चली चेष्टा - वच्चेष्टा गर्हिता विदां । विषाऽन्नतृप्तिफलव-न्न योगोऽस्य फलेन वै । १३६॥
संसारस्तत्फलं दुःखा-नुवन्धी तद्गुरुं श्रयेत् । अबन्ध्यकारणत्वेन, गुरुभक्तिर्महोदया ॥ १३७ ॥ ॥

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193