Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(५१)
रागरोगाऽगदङ्कारो, द्वेपानलमहोदधिः । संवेगसिद्धिकृच्चिन्ता-मणिकल्पोऽयमिष्टकृत् ॥१५१॥ । परार्थसाधकःस्सैवं, तथा कारुण्यभावतः । प्रभूतेषु भवेषु लाग्, वियुज्यन् पापकर्मतः ॥१५२॥ वर्धमानोऽनेकशुद्ध-भावैराराधनाऽनघा । प्राप्यतेऽनेन चरमे, भवेऽचरमजन्मभूः ।।१५३॥ पूर्णपरार्थनिमित्तं, तत्राऽऽधाय समां कियां । रजो मलं च निधूय, क्षायिकं ज्ञानमाश्रितः ॥१५४॥ सिध्येद् बुध्येत निर्वायात् सर्वक्लेशान्तकृद्भवेत् । एवं दीक्षां प्रपाल्यासो, सिद्धो ब्रह्म परं दधत् । १५५॥
(चतुर्थ सूत्रंसमाप्त) क्षीणजन्मजरामृत्यु-दुःखश्च मङ्गलालयः । क्षीणाऽनुबन्धशक्तिः स, सम्पूर्णात्मस्वरुपभाक् ॥१५६॥ अक्रिय: स्वीयभावस्थो, निराकारो निरञ्जनः । अनन्तज्ञानदृक् शुद्धो, चिदानंदमयः सदा ॥१५७॥ न शब्दो न रसे। गन्धो, न रुपं स्पर्शभाग् न च । सत्त्वा अरुपिणोऽनित्थंस्थ-स्थानाः निष्ठिताः सदा ॥१५८॥ अनन्तशक्तिभाजस्ते, सर्वबाधाविवर्जिताः । सर्वथा निरपेक्षास्ते, प्रशान्ताः स्तिमिता घनाः ॥१५९॥ एषोऽसंयोगिको मोदो, मतोऽतः परमो बुधैः । अप्रमोदः परापेक्षा, संयोगो विरहान्तिमः ॥१६॥ फलमेतस्य न फलं, विनिपातपरं हि तत् । मोहाद् बहुमतं मुग्धैः, सुखं संयोगजं भवे ॥१६१॥ ततोऽनर्था अपर्यन्ता, एतद् भावरिपुः परः । नाऽतो भगवता प्रोक्त, आकाशेनाऽस्य सङ्गमः ॥१६२॥ स्वस्वरुपे स्थितः सिद्धो, नाऽन्यत्राकाशसङगमः । न सत् सदन्तरं यायात्, तत्वं केवलिवेदितम् ॥१६३॥

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193