Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(६४)
भव्यत्वं योग्यतारुपं, योग्याः सर्वे न कार्यगाः । मूर्त्तयोऽखिलदारुणां, न कुम्भाः सर्वसन्मृदाम् ॥ १९० ॥
व्यवहारनयेनेदं, तत्त्वाङ्गोऽप्येष वर्त्तते । विशुद्धेस्तदनेकान्त-सिद्धिर्निश्रयतोऽमलः ॥१९१॥ आषा सर्वतोभद्रा, सर्वज्ञानां तु शासने । आद्यन्तमध्यकल्पाणा, कष - च्छेदाऽऽतपैर्युता ॥ १९२॥
परिशुद्धिः पुनर्वन्धाभावादिभ्योऽस्ति योग्यता । लिङ्गमेतत् प्रियत्वारव्यं, गम्यं योग्यप्रवृत्तितः ॥१९३॥ संवेगसाधकं नित्यं, नैषाऽन्येभ्यो वितीर्यते । विरुद्धलिङ्गतो ज्ञेया - स्ततस्तदनुकम्पया ॥ १९४ ॥
अदानमामकुम्भोद - ज्ञातेन हितकारकं । निन्दया दुर्लभो वोधि-र्मास्त्वेषामित्यनुग्रहः ॥ १९५॥
आज्ञा विशुद्धतैकान्तात् फलं तदविरोधतः । महोदयफला शास्तु-र्बहुमानात् शिवप्रदा ॥ १९६॥ ॥ इति श्रीपञ्चसूयाः भावानुवाद - पद्यानि समाप्तानि ॥

Page Navigation
1 ... 188 189 190 191 192 193