Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
निश्चयेन मतं यस्मात् तत्र योगो वियोगवान् । नैप योग इतो भिन्नलक्षणो नेच्छया युतः ॥१६४॥ स्वभावएव सिद्धाना-मनन्तानन्दसङ्गतः । उपमा विद्यते नाऽत्र, गम्यतेऽनुभवेन तत् ।।१६५।। आज्ञेषा जिनचन्द्राणां, सर्वज्ञानां यथार्थिका । एकान्तेन यतो नैपु, कारणं वितथोदितेः ॥१६६॥ नाऽनिमित्तं च कार्य स्यात्, परं दृष्टान्तमागतः । सर्वशत्रुक्षये कश्चित् , सर्वव्याधिवियोगवान् ।।१६७॥ सर्वाभीष्टाऽर्थसंयोगात् पूर्णेच्छोऽनुभवेत् सुखं । ततोऽनन्तगुणं सिद्धौ, रागादिरिपुनाशतः ॥१६८॥ रागाद्या रिपवो भावादातंकाः कर्मवेदनाः । ज्ञानदृष्ट्यादिकाः स्वेष्टा, कुतीर्थत्वादनीप्सता ॥९६९।। एवं सुखमयाः सिद्धा, न गम्या इतरैर्जनैः । यथा शमसुखं क्रुद्धो, रोगीवाऽऽरोग्यसम्भवम् ।।१७०॥ सुखं न विन्दतेऽचिन्त्यमत एतत् स्वरुपतः । साधनन्तमपेक्ष्यैकं, प्रवाहेऽनाद्यनन्तकम् ॥१७१॥ तथाभव्यव्यत्वभावादे-भगवन्तः सिद्धिमास्थिताः । चित्रं तस्फलभेदेन, नाऽन्यथा सहकृद्भिदा ॥१७२।। तथाभव्यत्वपाको हि, सहकारिण पाश्रितः । इत्यनेकान्तवादोऽसौ, तत्त्ववादश्च खल्वयम् ।।१७३।। मिथ्यात्वं परश्चैकान्तो, व्यवस्था नाऽत्र सम्भवेत् । सिद्धत्वं संसरता यत्तन्नाह कर्मयोगतः ॥१७४॥ अबद्धस्य च का मुक्ति-स्तच्छब्दार्थविनाकृता । अतीतकालवद् वन्धो-ऽनादिमान् स प्रवाहतः ॥१७५॥ भबद्धबन्धनेऽमुक्तिः, सदा बन्धप्रसङ्कतः । नाऽवद्धमुक्तयो-भेंदः, काञ्चनोपलभेदवत् ॥१७६।।

Page Navigation
1 ... 186 187 188 189 190 191 192 193