Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 186
________________ (५०) अतः परमसंवेगस्ततः सिद्विरसंशया । शुभादेयः प्रकृष्टोऽसावेषा तदनुवन्धिनी ॥१३८॥ चिकित्सैवं भवव्याधेन सुन्दरमितः परं । न विद्यतेऽत्रोपमान-मेवं प्रज्ञा च भावना ॥१३९॥ परिणामेन यस्त्वेवमपातिना विवर्धयन् । मासदिशभिः सर्व-देवलेश्या व्यतिव्रजेत् ।।१४०॥ एवं जिनेश्वराः प्राहुः, सर्वशुक्लयुतस्ततः । कर्मानुबन्धभित् प्रायो, लोकसंज्ञाविनाशकः ॥१४-१॥ प्रतिश्रोतोगमः शश्वत् सुखयोगः स योगिराट् । श्रामण्यस्याऽऽराधकोऽसौ, प्रतिज्ञापूर्वृषोपमः ॥१४२॥ एवं सर्वोपधाशुद्धः, सन्धने शुभभावनां । निर्वाणसाधनी सम्यकू, सुरुपादिरतौ यथा ॥१४३॥ प्रादुष्पत्यविकलत्व-भावाद क्लिष्टरूपतः । भननुतापिभावाच्च, सौन्दर्यमनुबन्धतः ॥१४॥ तत्तत्त्वखण्डनान्नान्या, प्रवज्या पूर्णतान्विता । एतज्ज्ञानमिति प्रोक्तं, शुभोऽस्मिन् योग आश्रितः ॥१४५॥ प्रतिपत्तिप्रधानोऽत्र (सत्तामरुपिणी) योग्यो भावः प्रवर्तकः । प्रायो विघ्नं भवेन्नात्राशुभं यत्रानुबन्धयुक् ॥१४६॥ भावाराधनयाऽऽक्षिप्ता, योगाः सर्वे शिवावहाः । ततः प्रवर्तते सम्यग्रनिप्पादयत्यनाकुलः ॥१४७॥ एकान्तनिष्कलङ्कवं, क्रिया शुद्धार्थसाधनी । उत्तरोत्तरयोगानां, सिद्धया सदनुवन्धिनी ॥१४८॥ परार्थं साधयेत् सोऽत:, परं तत् कुशलस्सदा । . सानुबन्ध प्रकारैस्तैर्वीजबीजादिरोपणात् ॥१४९।। क्रियावीर्यादियुक्तोऽसा-ववन्ध्यसुखचेष्टितः । समन्तभद्रः सद्ध्यान हेतुर्मोहतमोरविः ।।१५०||

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193