Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(४५)
सागरे पतितं रत्नं, यथाऽऽतुं दुष्करं तथा । बहवोऽन्ये भवा अस्मात्, बहुदुःखफलाधमाः ॥७४॥ मोहान्धाः पापबन्धाढ्या, अयोग्याः शुद्धसत्कृतौ । योग्यं नृत्वं पोतभूतं, भवाब्धौ योजयेद् हिते ॥ ७५ ॥ छिद्रं संवृणुते ज्ञान कर्णधारं तपः प्लवत् । सर्वकार्योपमातीतः क्षणोऽत्र दुर्लभो यतः ॥७६॥
सिद्धिसाधकसद्धर्म-साधको नरजन्मनः । उपादेयैषाऽसुमतां, सिद्धिर्नास्यां यतो जनुः ॥७७॥ न जरा न मृतिर्नेष्ट वियोगो न क्षुधा तृषा । नान्योऽस्यां कोऽपि दोषोऽस्ति, जीवाऽवस्थानमग्रिमम् ॥७८॥
नाऽशुभा अत्र रागाद्याः, स्थानं शान्तं शिवं सुखं । संसारो विपरीतोऽतो, भावाः सर्वेऽत्र चञ्चलाः ॥७९॥
सुख्यपि स्यान्महादुःखी, सदसत् स्वप्नवत् समं । तदलं प्रतिबन्धेन कुरुत ! मय्यनुग्रहम् ॥ ८० ॥ - उद्यच्कृत समुच्छित्त्यै, भवस्य दुःखरूपिणः । भवतोरनुमत्याऽर्ह, साधयाम्येतदप्यलम् ॥८१॥
निर्विण्णो जन्म-मृत्युभ्यां वाञ्छितं मे समृध्यति । सद्गुरुणां प्रसादेन, शेषानपि च बोधयेत् ॥ ८२॥ सममेभिरततो धर्मं, श्रयेत् कुर्याच्च सर्वदा । निराशंसः करणीयं, योग्यं तन्मुनिशासनम् ॥ ८३॥ एतेष्वबुध्यमानेषु कर्मणामपरिक्षयात् । आयोपायविशुद्धं तदुपकारं सुधीः सृजेत् ॥ ८४ ॥
एषा कृतज्ञता धर्म- जननी करुणा जने । कृत्वैवं तदनुज्ञातः, सम्यग् धर्म प्रसाधयेत् ॥ ८५ ॥
"
“तपपवणजवणं” इतिमूलपाठेनाऽत्रैवमर्थसङ्गतिः कार्या यत् - पवनभूतेन तपसा यत् 'लवमानंतरण क्रियान्चिमम् इति ।

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193