Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 180
________________ एवमालोच्य धर्मेणाऽविरुद्धे वर्तते सुधीः । भावमङ्गलमेतद्यनिष्पत्तिः सुकृतावलेः ॥६१॥ जागरेद्धर्मजागर्या, कालोऽस्य क्षमं किमु ? । असारा विषया एते, गन्तुका विरसान्तकाः ॥६२॥ सर्वाऽभावको मृत्युभीषणोऽज्ञातसङ्गमः । भूयोऽनुवन्ध्यवार्योऽयं, धर्म एतस्य भेपजम् ॥६३।। सिद्धश्चिरंजीविताया, दानादार्य (?) निपेवितः । . सर्वसत्वहितोयुक्तोऽनघः सिद्धि सुखावहः ॥६४॥ नमोऽस्त्वस्मै सुधर्माय, तभृद्भ्यश्च नमोनमः । नमस्तत्ख्यापकेन्य-रतत्स्वोकर्तृभ्यो नमो नमः ॥६५॥ इच्छाम्यहममुं धर्म, प्रतिपत्तुं त्रिधा त्रिधा । ममैतदस्तु' कल्याणं, जिनानामनुभावतः ॥६६॥ एवं पुनः पुनायेत् , प्रणिधानं शुभोदयम् । एतद्धर्मजुषा सेवाकृत्स्यान् मोहभिदा ततः ।।६७॥ एवं विशुद्धयभावेन, कर्माऽपगमतो व्रजेत् ।। योग्यतां स्याच संविग्नो-ऽममोऽन्यानुतापकः ॥६॥ विशुद्धः शुध्धमानान्तःकरणो मुनिधर्मधीः । (द्वितीयं सूत्रं समाप्तम्) यथोदितगुणे साधोधर्मेऽस्मिन् परिभाविते ॥६९॥ यतेतैनं ग्रहीतुं द्राक्, सम्यगन्यानुतापकृत् । विघ्नं तत्प्रतिपत्तौ स, नोपायोऽस्यास्तु बाधनम् ।।७।। हितो नाऽकुशलारम्भो, नाग्नेः पङ्कजसम्भवः । मातापिता न बुद्धौ चेद् , बोधयेत्तौ कथञ्चन ॥७१॥ धर्मिणः सत्फलाः प्राणा, लोकद्वयहितोद्भुराः । समुदायकृतं कर्म, समुदायफलं ध्रुवम् ॥७२॥ शिवेऽस्माकं सदा योगो-ऽत्रैऋवृक्षस्थपक्षिवत् । यमश्चण्डोऽनिशं पार्श्वे, दुर्लभो मानुषो भवः ।।७३॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193