Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(३७) शब्दो न रागाऽपरपर्यायाया आसक्तेरिकः, तामासक्तिमन्तरेण मैथुनस्यैवाऽभावात् । अतें एवं : च तन्निरपवादं । न च प्राणातिपातादिवत्तत्र द्रव्य-भावविकल्पभवा पुरुषाणां चतुर्भङ्गी, कथश्च
नापि न निर्दोषता । अत एव चाऽत्र कामाभिलाषस्य नातिचारतोक्ता किन्तु तीवकामना
भिनिवेशस्य । ... . श्रूयते च महाव्रतानि प्रतिपतुमसमर्था देशविरतिं प्रतिपद्यमानाः स्वेषां कामभोगासक्तत्वं
ज्ञापयित्वा तां प्रतिपद्यन्ते इति । ...: "अहणं अहणणे अकयपुण्णे रज्जे जाव अंतेउरे माणुस्सएमु य कामभोगेसु मुच्छिए ... जाव अशोववण्णे णो संचाएभि जाव पव्वइत्तए " त्ति
: श्रीज्ञातधर्मकथासु एकोनविंशतितमेऽध्यने श्रीपुण्डरीकनृपवचनं चैतदेव ज्ञापयति। एवं च त्यकतुमशक्तानां गृहवासो नाऽऽसक्तानां देशविरतिमतामितिवचः प्रलापमात्र, अशक्त्यापि विषयासक्तिमूलत्वादेवेति योग्यमेवोक्तं तीवकामाभिनिवेश इति ।।
पञ्चमं चाऽनुवतं यद्यप्यत्र स्थूलकपरिग्रहविरमणमित्युक्तं, परं वस्तुवृत्त्या धन-धान्यादीनां परिमाणस्य करणमित्येव पञ्चममनुत्रतं मन्तव्यं, परं यदत्र विरमणशब्देनोच्यते पश्चममणुव्रतं, तत्र प्रथमं तु 'हिंसाऽनृतस्तेयमैथुनपरिग्रहेभ्यो विरतिव्रत'मिति 'देशसर्वतोऽणुमहती' इति तत्त्वार्थ सूत्रं (अ. ७ सू. १-२) 'सव्याओ परिग्गहाओ वेरमण 'मिति पश्चममहावतपाठं (श्रीपाक्षिकसूत्र) चानुकृत्योच्यते, परम अविद्यमानस्याऽप्राप्यस्य गतमानस्यवा वा लोकाऽतिरिकतस्य षट्खण्डाधिकभूमिपतित्वस्याऽदृष्टाऽकल्पितम्य वा निवृत्तिं विधाय मा भूत् पञ्चमाणुव्रतधर इति । अत एवाऽतिचारेषु न परमण्डलभूम्याघतिक्रमाद्या अतिचारा उकताः ।
यद्यपि समुदायेन परिगृहीतसर्ववस्तुमूल्यं नियतीकृत्य तदधिकऋद्धिविरतिमतां नैतेऽतिचारा भवन्ति पृथक्तया, परं विवेकिनः श्रमणोपासकस्य धनधान्यादिविभागैनैव परिग्रहस्य परिमाणनियमनमुचितं । तथैव चानन्दादिभिः परिग्रहपरिमाणकरणवते विभज्य स्वीकृतं, परैरपि विवेकिभिस्तस्य तथैव स्वीकार्यत्वमिति धन-धान्यादयोऽतिचाराः सामान्यतोऽत्र स्थूलपरिग्रहविरमणतेयोक्तस्याऽ. णुव्रतस्य निबद्धा इप्ति । श्रावकप्रज्ञप्त्यादिषु श्रावकधर्मप्रतिबद्धेषु ग्रन्थेषु तु परिग्रहपरिमाणस्यैवाणुव्रततोक्ताऽस्तीति ।
यद्यपि पञ्चमेऽणुव्रते धन-धान्यादीनां नवविधानां पृथक् पृथक् परिमाणकरणं सूत्रेष्वादिष्ट, कृतस्य च परिमाणस्यातिक्रमेणाऽतिचारभावादतिचाराणामपि नवविधतैव युक्ता, परं धान्यादीनां केषाश्चित् धनादिभिः सह मेलयित्वा पञ्चैवातिचारा अत्र गणिताः ।

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193