Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 171
________________ (३५) निषेघयामा सुस्तेऽपि सधवानां विधवानां वा तासां श्रमणोपासकधर्मस्य साधनं तु स्वीचकुरेवेति । यश्च निषेधो जिनकल्पादीनां वनितानां क्रियते स तेषां जघन्यतो नवमपूर्वतृतीयवस्तुधारिवे एव भावात् स्त्रीणां च बहुधा तुच्छत्वादिस्वभावत्वाद् दृष्टिवादपाठस्य निषेधेन पूर्वाणामध्ययनस्य निषेधात् । " यथा च नीचजातीयानां गच्छाचारादिमर्यादामाश्रित्य प्रवज्यादानादीनां निषेधेऽपि न केवलत्पत्ति-मोक्षप्राप्त्यादेर्निषेधः, भावप्राप्यत्वात्तस्य तथाऽत्रापि व्यवहारेण स्त्रीणां तथाविधानां श्रुतानां' दानविषये सत्यपि निषेधे भावप्राप्याणां केवलादीनां न प्रतिषेधो युक्तः, विशेषतश्च जैनानां । यतस्ते हि द्रव्यं समवलम्बमाना अपि तस्यानेकान्तिकतां फलमपेक्ष्य स्वीकुर्वन्ति, भावे चैकान्तिकेन फलदानप्रत्यलमिति स्वीकुर्वन्ति । अत एव श्रीतार्थादिषु भावनिर्ग्रन्थत्वं प्रति सिद्धादीनां न भाज्यता, किन्तु द्रव्यनिर्ग्रन्थत्वं प्रत्येवेति प्रोक्तं, जैनशासनानुसारिणां च तत्त्वत्वादपरायणानां युक्तमेव चेदमिति । परदारसेविनां चंडप्रधोतरावणानां वेश्यागामिनां च सत्यक्यादीनां श्रुताऽनर्थपरम्परा कस्य विवेकिनः सर्वथा परदारगमनान्निवृत्ति कारयितुं नोत्साहयेत् । . किञ्च - अनङ्गक्रीडा न स्थूलमैथुनरुपा, न च तेन तथा कश्चिदपि साक्षादस्ति सम्बन्धः, परं यः स्वस्त्रीसेवनेन सन्तोषं न गच्छति, असन्तुष्टकामश्चानङ्गक्रीडाकरणे धत्ते उत्साहं, सोऽवश्यं तथाविधे स्वाभाविके संयोगे कदाचिच्च तस्या अतिप्रसङ्गेनोत्पाद्य तथाविधं संयोगं तज्जन्यकुतूहलादिना वा परदारगमनायोद्यतो भवेदिति तस्या अनङ्गक्रीडाया उक्त्वाऽतिचारतां मूलत एवं तस्या प्रवृत्तिर्विरुद्धा । " किञ्च-यादृशः स्त्रीसेवनया कामप्रादुर्भावादिर्भवति, ततो बहुतरः कामादरोऽनङ्गक्रीडायां जायते, स च कर्मणामाश्रवान्निवर्तितुमनसां न लेशतोऽप्युचितः धात्वादिक्षयश्चानङ्गक्रीडया तादृशो जायतें, येन ये राजयक्ष्मादयो दोषाः स्त्रीसेवनेन नोत्पद्यन्ते, ते तस्या अनङ्गक्रीडायाः सकाशात् जायन्ते । अत एव वैद्यऽपि हस्तकर्मादीनां दुष्टतरत्वं वर्णितं, राज्यव्यवहारेऽपि तादृशानां क्रियाणां दण्डपात्रता साधिता, अत योग्यमेवोक्तमनङ्गक्रीडा या साऽतिचार इति । यद्यपि स्थूलकमैथुनविरमणव्रते परस्त्रीसेवनस्य परिहारः, विवाहश्च न तद्रूप इति कथं तस्यातिचारता ? इति स्यादाशङ्का । परं विषयभोगा- पत्योत्पत्तिफलो हि विवाह इति विवाहयोजनं समालोचयतां तन्निवारणं सुकं ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193