Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
कूटलेखकियायाः क्रियारुपत्वेऽपि मृषावादस्ततो दण्डोऽपि मृषा वक्तुरिव कूटलेखकारस्य - ज़िला हस्तादिच्छेदादिरूपो भवति, ततस्तस्य मृषावादविरमणस्याऽतिचारता प्रत्याख्येयता चेति । ... ... यद्यपि कूटलेखस्य करणं परस्य गवादीनामपहारायैव स्यात् , स्याच्च तस्मात्तस्याऽदत्ताऽऽ. दानरूपता, परं लेखस्य तत्त्वमेव तत् यदुतवचनविन्यासस्य स्थैर्याद्यर्थं लिपिकरणमिति, वचनविन्यासस्य विपर्ययरुपेण विन्यासात्तस्य कूटलेखकरणस्यापि मृषावादेनुव्रत एवातिचारता प्रत्याख्येयता च । . अत्र च यथाऽऽद्यानुव्रते वध-बन्धादयो न स्थूलप्राणातिपातरूपास्तथाऽपि वध-बन्धादिभ्य एव परेषां प्राणानामपरोपो भवति द्विपक्षादीनामिति, ते वधः बन्धाद्या अतिचारतया तत्रोक्ताः, तथाऽत्रापि स्थूलमृषावादविरमणे सहसाऽभ्याख्यान-रहोऽभ्याख्यान-स्वदारमन्त्रभेदा अपि स्थूलस्यैव मृषावादस्य हेतुतामाश्रयेयुरिति सहसाऽभ्याख्यानादीनामप्याख्याताऽतिचारतेति ।
यथाऽऽयाणुव्रते हिंस्यानां तदतिपातस्य तद्विरमणस्य च द्वीन्द्रियादित्रसविषयत्वात् सङ्कल्पादिरुपत्वाद् द्विविध-त्रिविधादिभङ्गैरुपेतत्वात् स्थूलता, द्वितीये च तस्मिन् राज-दण्डनायक-पुरश्रेष्ठ्यादिजनाधीशनिवर्तितस्य जिह्वाच्छेदादिरुपस्य दण्डस्य योग्यो यो मृषावादी गोभूम्यादिविषयस्तस्प तथादण्डकारणत्वेन स्थूलत्वं, तथा तृतीयेऽस्मिन् विषयदण्डादीनपेक्ष्यापि पौर-जनपदादिषु चौरंकार: करं यत्तत् स्थूलमदत्तादानं गण्यते, तद्विषयमेव चाऽत्र प्रत्याख्यानं क्रियमाणं तृतीयं स्थूलादत्ता.. दानविरमणमिति गण्यते ।
अत एवाऽत्र स्तेनाऽऽहृतादयोऽतिचारा, यतो लोके ये स्तेनतया ज्ञाता जनास्तैरानीत योग्येन महताऽल्पेन वाऽपि मूल्येन गृहणतोऽतिचारो गण्यते, स्तेनाऽतिरिक्तेभ्योऽल्पमूल्याऽऽदिना' ग्रहणेऽपि वस्तूनां नाऽतिचारता, राजादयोऽपि मूल्यादेरल्पत्वादिविचाराद्विशेषेण कैः कीदृशैश्चानीतं गृहीतमेतेनेति न्यायावसरे विचारयन्ति, तदनुसारेणैव च दण्डं निर्वर्तयन्ति. ततश्च क्वचित् महतिमलिम्लुचि अल्पव्यवहारकारकोऽपि तेन सह महता दण्डेन दण्डयते, क्वचिच्च कादाचित्केऽल्पे .. चौरे महार्धमपि गृहणानोऽल्पार्धे न तथा दण्ड्यते इति, स्तेनाऽऽदृतं गृहणतोऽतिचारता, स्तेनस्य महत्त्वाल्पत्वमाश्रित्य दण्डस्याऽल्पमहत्तयोर्भावादिति । .
स्तेनप्रयोगातिचारेऽपि स्तेनस्य तथाविधां प्रसिद्धिं तथाविधां क्रियां च व्यवहारगतामवः . लोक्य पश्चात् तत्प्रयोगस्य स्वरुपं साभिप्रायेतररुपमल्पमहालोभ-लाभादिरुपं च समाश्रित्य निर्व-र्यते नृपादिभिर्दण्ड इति, तत्कृतेराम्नाताऽतिचारता ।
. कूटतुला-कूटमानकरणानि च स्पष्टतया व्यवहारिणामंप्रामाणिकत्वविधायकानि नृपत्यादिज्ञानादिषु चावश्यं दण्डहेतवो भवन्तीति तेषामाख्याताऽतिचारता । तत्प्रतिरूपकवस्तुव्यवहारोऽपि ...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193