Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
__ यथा प्रथमत्रते हिंस्यादीनां रक्षणं प्रधानतया वैरानुबन्धाद्याश्च गौणतया, तथा द्वितीयस्मिन्नपि कर्मागमकारणाशुभयोगनिरोधवत् मृषा वादयितुर्यत् जिह्वानुदादयोऽनर्था नृपादिभ्यो भवन्ति तद्वारणं मुख्यतयाऽस्ति, अत एवाऽनुव्रतस्योच्चारणे स्थूलस्य मृषावादस्य लक्षणमेतदेवोच्यते यो जिह्वाछेदादिकरो मृषावादरतं द्वितीयेऽनुव्रते प्रत्याख्याति श्रमणोपासक इति ।
अत्रेदमवधेयं यदुत-यथा वधविरतौ जगद्वर्तिनां सर्वेषामसुमतां रक्षणं तद्विषयकाऽशुभकर्मागमनिरोधाय वधस्य निषेधद्वारा रक्षणममिमतं, न च जीवनेच्छायामसंयतानामसंयमविषयाऽनुमोदनीयताऽऽसज्यते, ईर्यासमित्यादीनां तद्रक्षणप्रधानानां प्रवचनमातॄणां पापसाधनापत्तेः ।।
तथा द्वितीये त्वणुव्रते स्पष्टमेव मृषा वदतामसंयतानां जिह्वाछेदादिदण्डविषयताया वारणमेव फलं, तथा चाऽसंयतानामपि जिह्वाछेदाधनों मा भूदिति कृत्वैव स्थूलमृषावादाद्विरमणं तदनर्थहेतुतामाविर्भाव्यैव कार्यते ।
_स्थूलमृषावादाद्विरमणं यथा पापागमनिरोधवत् जिह्वाच्छेदाद्यनर्थहेतुतया वार्यते तथा स्थूलप्राणविषयतया स्थूलप्राणातिपातविरमणवत् मृषावादोऽचित्तद्विपद-चतुष्पद विषयतया निवार्यते इति, अपदविषयःमृषावादोपलक्षणतया द्विपद चतुष्पदकन्या-गो-भूमीनां द्विपद-चतुष्पदानां मृषावादो यो जिह्वाच्छेदादिराजदण्डकारणीभूतः स प्रत्याख्यायते,
एवं प्राचीनं मृषावादत्रयमवसेयं, शेषद्वयविचारस्त्वेवं. यद्यपि न्यासापहारो यो मृषावादे स्थूले प्रत्याख्यायमाने प्रत्याख्यायते, स स्थूलदृष्ट्या न्यायस्य परार्पितस्य सौवर्णिकादेरपलपनात् स्तेयरुपतामेवानुधावति, अस्ति च तत्र फलरुपता स्तेयस्य, परं तत्रेदमवधेयं यदुत
____ आदौ तावत् यः कश्चिन्न्यासमर्पयितुमिच्छति स तावत्तत्र नगरादौ यस्मै न्यासमर्पयितुमिच्छति, तस्य प्रामाण्यं यथायोग्यमवश्यमन्वेपयति, अन्वेषयञ्च यथायोग्यं पृच्छति जनान् यथाऽमुकः कीदृशः सत्यवाक् प्रामाणिकश्चति ? तत्र च यदा जनेभ्यः स न्यासार्पकः समाकर्णयति यत् त्वयां पृच्छयमानः स श्रेष्ठ्यादिः प्राणान्तेऽपि नाऽसत्यं वक्ति, न चापद्गतोऽपि मृषा वकतुमेष जानाति, नच कपर्दिदकामात्रायापि परद्रव्याय स्पृहयति, न च कपर्दिकात आरभ्य यावत् कोट्यवधिसौवर्णिकेभ्यः स्पृहा तस्यास्ति, येनाऽप्रामाणिकत्वं स्यात् इत्यादि, - तस्य श्रेष्ठयादेः सत्यवक्तृत्वादि सत्यप्रतिज्ञत्वादि च श्रुत्वैव तस्मै स्वप्राणाधिकमपि न्यासं समर्पयति, समर्पयंश्चापि वारं वारं वक्ति च यथा श्रेष्टिन् ! यदाऽहं मार्गयाम्येनं न्यासं तदा निर्विलम्ब मह्यं समर्पणीयोऽयमिति तदा । प्राक् तु तावत् स श्रेष्ठ्यादिस्तस्य न्यासस्य ग्रहणविषये विधत्त एव निषेधं, पश्चान्न्यासार्पको धनं लगित्वा विज्ञप्तिपारम्पर्य चादृत्य तं तत्स्वीकारं वचसा

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193