Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(२१)
एव यावती शक्तिः स्वस्य स्यात्तां समालोच्य विद्यमानायाः स्वशक्तेरगूहनेनानतिक्रमेण चाणुव्रतानि प्रतिपद्येताऽवश्यमिति च दर्शितं ।
अन्यच्च यथाशक्तीतिवचनेनाऽनुव्रतानां सहभावस्याऽनियमो दर्शितः । यथा हि महाव्रतानामष्टादशानां शीलाङ्गसहस्राणां परस्परमविनाभावो, नाऽत्र तथेति ।
अत एव निर्युक्तौ —
पण चउक्कं च तिगं दुर्गं च एगं च गिण्हइ वयाई 'ति, अनुव्रतानां ग्रहणेषु *विकल्पा १६८०९ व्रतग्रहणभङ्गाः दर्शिताः परमत्र.. विकल्पो गृहीतः प्रथमतया स प्रायेण देशविरतानां पञ्चाणुव्रतान्यावश्यकानीति ज्ञापनार्थं ।
पञ्चकस्य
"
अन्यच्च 'अहवा वि उत्तरगुणे' त्तिवचनात् दिक्परिमाणाऽऽदीन्नामुत्तरगुणत्वमाविष्कृतं । उभ्यते पार्थक्येन “पंचाणुवइयं सत्तसि कखावइयं सम्मत्तमूलं गिहत्थधम्मं " न वृत्तिकारा अपि देश-सर्वोत्तरगुणानभिग्रहतयैव व्याख्यान्ति । तथाच मूळव्याख्यापेक्षयाऽनुव्रतानां पञ्चानां पाश्चात्यव्याख्यापेक्षया तु द्वादशानामपि व्रतानां विकल्पेन ग्रहणं भवति ।
किञ्च पञ्चानामनुव्रतानां यावज्जीवतया ग्रहो भवतीति 'पंच अणुव्वयाई जावकहियाणी' त्युक्तं । ततश्च यत्किञ्चित्कालं यावत्तेषां ग्रहणे देशमूलोत्तरगुणानां च ग्रहणेऽपि नाऽभिमता देशविरतिमत्ता, अतो मौनैकादश्या दिवस देवो दैशिकपौषधादिवतविधायका अपि श्रीकृष्णादयः केवलसम्यग्दर्शनधरतयां निर्दिष्टा आवश्यकवृत्त्यादिषु ।
तत्त्वतः पञ्चानामणुव्रतानां यावत्कथिकतया ग्रहणं देश विरतानामावश्यकं परं पञ्चानां द्वादशांनां च ग्रहणं श्रावकाणां वैकल्पिकमिति योग्यमुक्तं यथाशक्ति इति ।
यथाशक्ति व्रतानां ग्रहणमप्युचितविधानेन, नतु यथाकथञ्चित्, यतः सर्वविरतिं प्रतिपित्सोंर्निग्रथभावमभ्युपजिगमिषोरपि व्रतस्य प्रतिपत्तावादौ श्रीवीतरागाणां यथाविभवं पूजनं साधूनां सत्कार - करणं च विधेयमस्ति ।
यत रक्तं श्रीपञ्चवस्तुप्रकरणे श्रीहरिभद्रसूरिभिः सर्वविरतिग्रहण विधौ
4
'अह सो करिऊण पूअं जहविभवं वीयरागाण । साहुणं च उवउत्तो' त्ति, यदि सर्वग्रन्थत्यागमयीं सर्वविरतिं प्रतिपित्सुर्यथाविभवं वीतरागाणां पूजादि कुर्यात्तर्हि गृह
* आवश्यकवृत्तावप्युक्तमस्तियत्
" सोलह चेव सहस्सा अहेव सया हवंति अहिया । एसो उवासयाणं, वयगहणविहा समासेणं ॥ "

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193