Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 156
________________ (२०) शिवपदगामितया, पर नैतेऽणुनचादिभञ्ज तया महामोहबन्धकाः । अणुव्रतादिभञ्जकानां तु न केवलो महामोहस्य बन्धः, किन्तु प्रेत्याऽपि सम्यक्त्व-विरत्यादीनां दुर्लभत्वमेवेत्याहु: 'भूओ दुल्लहत्तं ' ति, । यद्यपि मरुदेव्यादिवत् केचिज्जीवा मनादिस्थावरात् प्रथममायाता एवं प्राप्नुयुः शिवपदानां साधनानि शिवं च, परं अणुव्रतादिभञ्जकानां तु पुनर्मूकप्रतिबोधितादिवद् भूयो धर्मस्यैव प्राप्तेदुर्लभताऽस्त्रि, ततो योग्यमुक्तं भङ्गे भूयो दुर्लभत्वमिति । - एतेन 'जायाए' इत्यादिना 'दुल्लहत्त' मित्यन्त्येन ग्रन्थेनाऽनुव्रतानां ग्रहणाय योग्या भूमिः सृष्टा । . अथ कथं तान्यनुव्रतानि ग्राह्याणत्याहुः पृथक् प्रकरणमिदं, तेन एवमित्युक्त्वाऽऽरब्धं, सम्बन्धश्चास्यैवमित्यव्ययस्य प्रतिपद्यतेत्यनेन, न तु पूर्वग्रन्येन, पूर्वाऽधिकारस्य स्वायत्तत्वात् । एवमित्यादिकस्य समग्रस्य वाक्यस्य तु 'थूलापाणाइवाये' त्यादिना 'इच्चाई'त्यन्तैन सम्बन्धः । किञ्च वाक्यं चेदं प्रतिपत्स्यमानेष्वणुव्रतेपु शक्तेरगृहनमनतिक्रमणं यथा भवति तथा यथाशक्ति स्वीकार इत्यादेर्दर्शनेन विधिमार्गस्य दर्शनाय । तथा च यदि स्यात् वीर्यस्य प्रकर्पस्तदा तु सर्वविरतिर्याऽष्टादशभ्यः पापस्थानेभ्यो विरमण-विवेक-त्यागरुपा सैव प्रतिपत्तव्या, तस्या एव मोक्षसाघनस्य मुख्यमार्गत्वात् , परं गृह-दाराऽर्थ-विषयादीनामासक्तिर्गता न भवेत् , ततश्च भवेदशक्तिगुहादीनां त्यागे, तदैव प्रतिपत्तव्यैषा । तत्रापि सर्वदा यथाशक्ति कार्यैव वृद्धिविरतेः । ततो युक्तं विजयाऽऽदीनां सर्वथा ब्रह्मधरणं, जिनदासाऽऽदीनां चतुष्पदपरिग्रहत्यागो योग्य एवेति । . एवं च “निरभिष्वङ्गस्य तु यतिधर्मः श्रेयानिति द्रव्यस्तवे निरभिष्वङ्गत्वेन यतिधर्ममनाश्रितानामावश्यकप्रवृत्तैर्दर्शनाय कथितस्य प्रकरणस्य तथा वित्तीवोच्छेयंमि ये' त्यादिकस्य द्रव्यस्तवमात्रस्य प्राधान्यं कृत्वा शेषव्यापाराणां निरपेक्षत्वं करणीयमेतदेव अर्थ-पुरुपार्थाद् धर्मपुरुषार्थस्य प्राधान्यमभिमन्वानः कार्य"-मिति वावदूकानां समाधानायाऽसर्वविरतेन भावस्तवाऽथ करणीयस्पापि द्रव्यस्तवस्य धर्मत्वेन प्राधान्येऽपि अकालगार्हस्थ्यव्युच्छेदेनाऽऽपित्तेः सम्भवात् तन्निवारणार्थं वृत्तिक्रियामनुरुध्य द्रव्यस्तवः कार्य इति । शुद्धमार्गदर्शनार्थमुक्तं तात्पर्ययुक्तमविज्ञाय अर्थ-कामयोरावश्यकतां च दर्शयन्ति गृहस्थानां ते निरस्ताः । , यतः निरभिष्वङ्गत्वं नायाति, आसक्तिरादिपु अशक्तिश्च तत्यागे सावद्यस्य च भवति, स

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193