________________
(२०) शिवपदगामितया, पर नैतेऽणुनचादिभञ्ज तया महामोहबन्धकाः । अणुव्रतादिभञ्जकानां तु न केवलो महामोहस्य बन्धः, किन्तु प्रेत्याऽपि सम्यक्त्व-विरत्यादीनां दुर्लभत्वमेवेत्याहु: 'भूओ दुल्लहत्तं ' ति,
। यद्यपि मरुदेव्यादिवत् केचिज्जीवा मनादिस्थावरात् प्रथममायाता एवं प्राप्नुयुः शिवपदानां साधनानि शिवं च, परं अणुव्रतादिभञ्जकानां तु पुनर्मूकप्रतिबोधितादिवद् भूयो धर्मस्यैव प्राप्तेदुर्लभताऽस्त्रि, ततो योग्यमुक्तं भङ्गे भूयो दुर्लभत्वमिति । - एतेन 'जायाए' इत्यादिना 'दुल्लहत्त' मित्यन्त्येन ग्रन्थेनाऽनुव्रतानां ग्रहणाय योग्या भूमिः सृष्टा । . अथ कथं तान्यनुव्रतानि ग्राह्याणत्याहुः पृथक् प्रकरणमिदं, तेन एवमित्युक्त्वाऽऽरब्धं, सम्बन्धश्चास्यैवमित्यव्ययस्य प्रतिपद्यतेत्यनेन, न तु पूर्वग्रन्येन, पूर्वाऽधिकारस्य स्वायत्तत्वात् । एवमित्यादिकस्य समग्रस्य वाक्यस्य तु 'थूलापाणाइवाये' त्यादिना 'इच्चाई'त्यन्तैन सम्बन्धः ।
किञ्च वाक्यं चेदं प्रतिपत्स्यमानेष्वणुव्रतेपु शक्तेरगृहनमनतिक्रमणं यथा भवति तथा यथाशक्ति स्वीकार इत्यादेर्दर्शनेन विधिमार्गस्य दर्शनाय । तथा च यदि स्यात् वीर्यस्य प्रकर्पस्तदा तु सर्वविरतिर्याऽष्टादशभ्यः पापस्थानेभ्यो विरमण-विवेक-त्यागरुपा सैव प्रतिपत्तव्या, तस्या एव मोक्षसाघनस्य मुख्यमार्गत्वात् , परं गृह-दाराऽर्थ-विषयादीनामासक्तिर्गता न भवेत् , ततश्च भवेदशक्तिगुहादीनां त्यागे, तदैव प्रतिपत्तव्यैषा । तत्रापि सर्वदा यथाशक्ति कार्यैव वृद्धिविरतेः । ततो युक्तं विजयाऽऽदीनां सर्वथा ब्रह्मधरणं, जिनदासाऽऽदीनां चतुष्पदपरिग्रहत्यागो योग्य एवेति । .
एवं च “निरभिष्वङ्गस्य तु यतिधर्मः श्रेयानिति द्रव्यस्तवे निरभिष्वङ्गत्वेन यतिधर्ममनाश्रितानामावश्यकप्रवृत्तैर्दर्शनाय कथितस्य प्रकरणस्य तथा वित्तीवोच्छेयंमि ये' त्यादिकस्य द्रव्यस्तवमात्रस्य प्राधान्यं कृत्वा शेषव्यापाराणां निरपेक्षत्वं करणीयमेतदेव अर्थ-पुरुपार्थाद् धर्मपुरुषार्थस्य प्राधान्यमभिमन्वानः कार्य"-मिति वावदूकानां समाधानायाऽसर्वविरतेन भावस्तवाऽथ करणीयस्पापि द्रव्यस्तवस्य धर्मत्वेन प्राधान्येऽपि अकालगार्हस्थ्यव्युच्छेदेनाऽऽपित्तेः सम्भवात् तन्निवारणार्थं वृत्तिक्रियामनुरुध्य द्रव्यस्तवः कार्य इति ।
शुद्धमार्गदर्शनार्थमुक्तं तात्पर्ययुक्तमविज्ञाय अर्थ-कामयोरावश्यकतां च दर्शयन्ति गृहस्थानां ते निरस्ताः ।
, यतः निरभिष्वङ्गत्वं नायाति, आसक्तिरादिपु अशक्तिश्च तत्यागे सावद्यस्य च भवति, स