________________
( १७ )
fara - गृहस्था यद्यपि देशविरता एव तथापि कायपातिनो न चित्तपातिनः । अतएव चं श्रीसूत्रकृताङ्गे विरताऽविरतानामपि तेषां स्वरुपतो धार्मिकाऽधार्मिका ख्य मिश्रपक्षत्वेऽपि पर्यन्ते धार्मिकपक्षतया तेऽभिमताः ।
अपि च- परेषां बोधिसत्वा जगत्युत्तमतयाऽभिमतास्तथाऽत्र शासने वरबोधि समेततया बोधिसत्त्वा अपि गृहस्थत्वेऽपि भवन्ति । अपि च- यथा श्रीवीरस्य भगवतो देशनायामनगारघर्मस्य मोक्षसाधनतयाऽऽख्यानं कृतं तथैवाऽगारधर्मस्याऽपि तत्फलस्यैवाऽऽख्यानं कृतमस्ति । श्रीप्रशमरति - योगशास्त्राऽऽदिष्वप्यगारधर्माऽऽराधनस्य फलमन्तर्भवाऽष्टकस्य सिद्धिप्राप्तिरुपं स्पष्टतया - ऽऽख्यातं ।
किञ्च - आनन्दाऽऽद्याः
श्रावका अगारधर्मवन्तोऽप्येकावतारिण इत्युपासकदशाऽऽदिषु स्पष्टं दृश्यन्ते । न च वाच्यमष्टादशस्वपि पापस्थानेषु प्रवृत्तिपरस्य कथं परमार्थसाधकत्वमणुव्रतधरस्येति ? । यतः प्राक् तावत् स एव देशविरतो भण्यते, योऽष्टादशभ्योऽपि पापस्थानकेभ्यो विरतिं कर्तुमभिलषति । अत एवोच्यने ' यतिधर्माडरक्तानां देशतः स्यादगारिणा ' मिति ।
किञ्च–साधुभिः कृतामष्टादशपापस्थानविरतिं सर्वविरतिरुपां श्रद्दधानोऽपि यदा कर्तुं न शक्नोति, तदैव देशविरतिस्तदभिलाषी सन् भवति, अतो देशविरतिः तप्ताऽयः कटाहपद्न्यासतुच्योच्यते, श्रीस्थानाङ्गे चाडत एव मनोरथा देशविरतानामुच्यन्ते इति परमार्थसाधकत्वभावननंसमावश्यकतममेव, अन्यथा परमार्थसाधकत्वदृष्टिमन्तराऽनन्तशः सर्वविरतीनामिव देश विरतीनामपि प्राप्तिर्जात पूर्वा, न च ताभिः काचित् कार्यसिद्धिरिति ।
अत्रेदमवधेयं यदुत–परमार्थसाधकत्वदृष्ट्या गृहीता देशविस्तयो या अष्टामिः (जन्ममिः) सिद्धिपदं दद्युः, ताः परमार्थसाधकत्वदृष्टिमन्तराऽनन्तशो गृहीताः पालिता अपि सुरलोकाऽऽदिसुखप्राप्तिपर्यवसाना भवन्ति, नाऽन्यथा । ततो देशविरतेरपि परमार्थसाधकत्वभावनमावश्यकतममिति ।
अत्र यत् कैश्चिदुच्यते यदुत - सर्वा अपि सम्यक्त्वस्य देशविरतेः सर्वविरतेश्च क्रिया अभव्येभैव्यैश्च जीवैरनन्तशो विहिता, न च कोऽप्यर्थस्ताभिर्निष्पन्नस्ततो व्यर्थमेव तत् क्रिया करणमिति । तैः प्राक् तावदेतावद् विचार्यै यदुत - सम्यक्त्वाऽऽदिक्रियाणामानन्त्यापेक्षया संसारे सर्वैः प्राणिभि:सह सर्वैः जीवैः सर्वै माता- पित्रादिसम्बन्धा अनन्तगुणा अनन्तशो लब्धा इति ते कथं न व्यज्यन्ते ? ।
किश्च - द्रव्यतोऽपि कृतायाः सम्यक्त्वाऽऽदिगताः क्रियास्ताभिरवश्यं सुरलोकादि तु दत्तमेच, सांसारिकक्रियाभिश्चाऽनन्तशो नरक - तिर्यगूगत्यादिषु महूा वेदना : अनुभूता इति प्रागनुभूत
३