Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 117
________________ (७९) - अत एव पूजायां 'काले सुइभूएण' मित्यादि, देवादीनामाराधनायां च 'देवगुणपरिबाना' दित्यादि, काले सद्योग-विघ्नवर्जनतयेत्यादि 'विधिसेवा दानादा' वित्यादि चोपदिश्यते । उपदिष्टं च पुष्पशालाय श्रमणेन भगवता महावीरेण रजोहरणाऽऽदिग्रहणेन स्वसेवाभावादि । . - ततश्च सुनिश्चितमिदं यदुत-प्राप्तानामप्येकदेशाऽऽदिप्रकारेणाऽर्हदादीनां भाग्यवतामेव सेवा- , ईता स्यात् ततश्च प्रार्थनमेतेषां । प्राप्तानामपि सेवाविषयागमे न साफल्यं इति प्राप्तोऽपि योग एषां पूज्याऽऽराध्यांना, ___ लब्धाऽपि सेवा सन्ध्यात्रयाऽऽराधनादिरूपा परमभगवतां तेषां, तदा स्यादू मोक्षानुकूल्यतावती । यत उच्यते "वीतराग ! सपर्यातस्तवाऽऽज्ञाऽऽराधनं परं । आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च ॥१॥ हित्वा प्रसादनादैन्यमेकयैत्र त्वदाज्ञया । सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् ॥१॥ (वीत०) इत्यादि । किञ्च आज्ञाव्यतिरिक्तं अवेयकोत्पातहेतुतया लब्धं चरणमप्यनर्थकमित्याह-'आणारिहे सिअ'त्ति, । उच्यते च--'इच्चेइयं दुबालसंगं गणिपिडगं' यावद् 'आज्ञयाऽऽराध्य संसारमनादिकमनवदग्रं व्यतित्रजिषुः जिविराध्य चानुपरिवर्तितवन्त' इत्यादि 'आणाए तवो आणाइ संजमो' इत्यादि 'धम्मो आणाइ पडिवतो' इत्यादि 'आणाखंडणकारी'त्यादि चाऽपरिमितमागमवचनवृन्दमत्राऽऽज्ञाराधनाफलेऽवतार्यम् । तदेवं दुर्लभ-दुर्लभ(तर)-दुर्लभतमेषु सेवान्तेिषु प्रार्थितेषु. चोल्लकाऽऽदिदृष्टान्तसाध्यचक्रिगृहपुनर्भोजनादिवद् महाभाग्यमतामेव प्राप्येषु विहिता प्रार्थना तत्तत्प्राप्ती, परं लम्भेऽपि दातुरातुरेऽपि ग्रहीतरि नश्येच्चेद् देयं, कैव दशा ह्यातुरस्येति दृष्टान्तमाधाय मनसि पञ्चमकाऽनन्तानां सम्यग्दृशामपि निगोदावस्थोपगमनल्यापकमागमवचनं यथार्थतयाऽऽज्ञाराधनाया निरतिचारपारगतताया अतिशयेन दुर्लभतमत्वमवधार्य प्राह-'पडिवत्तिजुत्ते सिआ णिरइयारपारगे सिमति च । न च वाच्यं सम्यग्दृशां पञ्चमानन्तांशमितानां परिपतितानां भावेऽपि प्राप्तः सिद्धिमष्टमानन्तांs शमिताः सम्यग्दृश इति कथं दुर्लभतमत्वं प्रतिपत्ति-निरतिचारपारगतत्वयोरिति चेत् ? सत्यं, सिद्धा अष्टमाऽनन्तांऽशमिताः प्रचुराश्च परिपतितेभ्यः, परं तेऽष्टमाऽनन्तांऽशमिता ये सिद्धास्ते न सर्वेप्यप्रतिपातिभावेनैवाऽधिगता निर्वृतिम् , अष्टमाऽनन्तांऽशस्यानन्ततमो भाग एवाऽप्रतिपतितानाम् , शेषास्तु सङ्ख्येयाऽऽदिकालपरिपतिता एव सिद्धाः पर्यन्ते इति आजन्माऽखण्डायाः प्रतिपत्तेरेवं निरतिचारपारगतेति द्वयोरैक्यम् , द्वयोरुपन्यासस्तु चरमभवं. यावत् मनुष्यभवास्तत्र चाऽऽज्ञादीनां प्रतिपत्तयः

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193