Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 140
________________ 'मित्ती मे सब एसु, वेरं मझं ण केणई 'त्यादि 'सव्यस्त जीवरासिस्से 'त्यादि प्रतिपादयित्वा क्षमा ग्राहयति। ततश्च भवति तेषां षण्णां जीवनिकायानां दयायाः करणीयताविषये प्रज्ञापनं चाहत्येव तदिति, जैनशासनोक्तानि स्थूलप्राणवधविरमणादीनि प्रकृतिसुन्दराण्येवेति । ___अवधेयं तावदिदमत्र यदुत-श्रमणोपासकधर्ममभ्युपयन् श्राद्धः 'तत्त्वाऽर्थश्रद्धानं सम्यग्दर्शन मिति 'जीवाज्जीवाऽऽश्रवावन्धसंवरनिर्जरामोक्षास्तत्व 'मित्याद्यवधारयन् पृथिव्यादीनां षण्णामपि जीवनिकायानां श्रद्धायुक्त एव भवति । अत एवोच्यते 'सत्येव (सम्यक्त्वे) न्याय्यमणुव्रतादीनां ग्रहण 'मित्यादि । . . युक्तं चेदमेव, यतो यः श्रद्धत्ते जीवान् त्रसतया स्थावरतया च, स एव क्षित्याऽऽदीनां स्थावराणां वधस्य वर्जनमशक्यं मत्वा तं परिजिहीर्घः सन् त्रसकायस्य वधं वर्जयन् स्थूलां प्राणातिपाताद् विरतिं करोति । यस्य तु सम्यक्त्वेन शून्यस्य त्रस-स्थावरभेदेन श्रद्धानमेव जीवानां नास्ति, स कथं तां तथाविधां कुर्यात् , तदभावे च शेषाणामपि तद्वृतिप्रायत्वादभाव एव तत्त्वतः स्यात् , ततो युक्तमुक्त 'सत्येव सम्यक्त्वे न्याय्यमणुव्रतादीनां ग्रहणं'। किञ्च-श्रमणोपासको लोकव्यवहारार्थमावेणिकान् आचारान् कुर्वाणोऽपि न तत्करणं धर्मत्वेन मन्यते । अतएव च “निरर्थिकां न कुर्वीत, जीवेषु स्थावरेष्वपि । . हिंसामहिंसाधर्मज्ञैः” इत्याद्युपपद्यते । ..... ततश्च सर्वप्राणिवधवर्जनरूपां सर्वविरतिमभीप्सन् स्थूलप्राणवधविरतिरूपां देशविरतिं कुर्वन्नपि . श्रमणोपासकः अणुव्रतादीनां प्रकृति सुन्दरत्वमाम्नाति श्रद्धाति च । न च वाच्यमनन्तानां वनस्पत्यादीनां स्थावराणां वधस्य न वर्जनं कृतं तर्हि परिमितानामितरेषां वधादेवर्जनेन किं हि व्रतत्वमिति ? यतस्त्रसवधो वर्जितुं शक्यः, त्रसतयैव चैषां जीवानां वधोऽतिसंङ्क्लेशकरः, सिद्धान्तश्चैप यदुत-हिंस्यकर्मविपाकेनापि जायमानायां हिंसायां हिंसकानां सलिष्टत्वानिमित्तभावादविरतेश्च भवत्यघन्दस्य वन्धः । अभावे तु सक्लेशादीनां 'जय भुंजतो भासंतो पावं कम्मं ण बंधई 'त्यादि वचनानाऽस्त्येव बन्धलेशोऽप्यघन्दस्य । मत एव चाऽप्रमत्तानां हिंसाया अभावाऽभावेऽपि अनाऽऽत्माऽऽरम्भकत्वाऽऽदि गीतमागमे इति ।

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193