Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(१२) भगवन्तो जिनेश्वरा एव हि क्षपकश्रेणिलाभमहिम्ना मथितमोहमाहात्म्यतया वीतरागाः, तेषां वीतरागता च तच्चरित्राऽऽगम-मूर्ति-परम्परावलोकनतो निश्चीयते । . . .
परतीथिका हि तथा कामासक्ता यथा विरहय्य स्त्रियं क्षणमासितुं न शक्ताः। अत एव च ते सस्त्रीकाः सन्तोऽपि परमकुलीनजनानामनुचितं स्वस्य प्रतिबिम्बमपि स्त्रीयुक्तमेव व्यधुरित्यलं प्रस्तुताऽप्रस्तुतेनेति ।
ननु कामभोगमयस्य मैथुनस्य पुण्योदयलभ्यत्वं न वा ? । आधे कथं निन्द्यता तस्य ? तस्माद्विरमणस्य वा महाफलत्वं ? । अन्त्ये, पुरुषवेदस्य पुण्यत्वेन कथमुल्लेखस्तत्त्वार्थाऽऽदिष्विति चेत् । ।
सत्यं ! न हि पुण्योदयलभ्यानि सर्वाणि प्रशस्यानीति नियमः, शास्त्रेषु पापाऽनुबन्धवतामपि पुण्यानामुक्तेः अमेध्योत्करस्य देवलोकादीष्टफलप्राप्तेः सनिदानधर्माऽऽचरणस्य सम्भूत्यादिवच्चक्रवर्तिपदपर्यन्तप्राप्तेश्च सिद्धान्ते तत्र तत्र प्रसिद्धत्वात् । या चाऽत्र मैथुनस्य निन्द्यता सा तत् अधर्मस्यैतन्मूलं सर्वसङ्गप्रवर्धकं सर्वान्यपापप्रवृत्तिहेतुकमेतदिति कृत्वा ।
___ शास्त्रे च पुण्यानां पापानां वोदयेन जातमिति न विचार्यते, किन्तु यद्यत् पापरुपं दुःखफलं दुःखानुबन्धं च भवति तन्निवार्यते, मैथुनं चैवं रुपमेवेति तन्निवृत्तिः शस्यते शास्त्रे इति ।
ननु किमिति मैथुनस्य सर्वेष्वपि जिनानां तीर्थेषु पापस्थानत्वेऽपि चतुर्थे तस्मिन् स्वदारसन्तोषाऽऽदेरभ्युपगमेऽपि महादानेषु मध्यमजिनादीनां तीर्थेषु व्यवस्था भिन्ना कृता? येन तत्र .. वहिद्धा-ऽऽदानाद्विरमणमितिरूपं चतुर्थ-पञ्चममहाव्रतयुग्मरुपं महादानं गीतमिति चेत् ?
सत्यं ? यद्यप्यत्र शास्त्रेषु कालविशेषेण जीवविशेषा एवाचाराणां भेदे कारणतया गीयन्ते, नच तदसम्भवि, नच तत्र वाच्यं किञ्चित् , परमेके एवं कल्पयन्ति यदुत-परे तीथिका आरामवादं पुरस्कृत्य मैथुन परिहरन्तोऽपरिहरन्तो वा त्यक्तं मैथुनमिति उद्धृष्य. सस्त्रीका वानप्रस्थाऽवस्थामनुयान्ति, न चैतज्जैनशासनाऽऽश्रयिणां शोभत.इति मूलत. एव स्त्रीपरिग्रहस्यैव निषेधः कृतः। ततश्च वहिद्धा-दानाद्विरमणमित्याख्यातं महाव्रतमिति । न चैतदयुक्तमामातीति ।
नववधेयमिदं यत्-प्राणातिपाताऽऽदीनि पापस्थानानि साऽपवादानि, केवलं मैथुनं निरपवादं, यतं उच्यते -
तम्हा सव्वाणुण्णा सव्वणिसेहो य पवयणे णत्थि ।
मोत्तुं मेहुणभावं ण तं विणा रागदोसेहिं ॥१॥ ति, अत एव द्रव्यभावः प्राणातिपातादिषु दर्श्यते भेदः स्त्रीवर्जयित्वा, नाऽत्र चतुर्थे महाव्रते द्रव्यभावभङ्गः । एवं तिरश्चां परेपां च मैथुने स्वजातीयनवलक्षगर्भजपञ्चेन्द्रिया-ऽसंख्यसंमुर्छिममनुष्यविषयताया अभावेऽपि राग-द्वेषवेगपूर्णत्वाद्वर्ण्यमेव मैथुन, तत एव पापस्थानं च सर्वे घामप्येतदिति । .

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193