Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 153
________________ विधिना कृतकालस्याऽभीचेर्विहाय नियतां सम्यग्दृशामपि भाविनी वैमानिकतां भवनपतिष्वेवोत्पत्तिरिति योग्यमुक्तं लघुतराणामप्यणुव्रतादीनां भङ्गे दारुणत्वमिति । ... जैने हि शासने स्तोकाया अपि प्रतिज्ञाया विराधने दारुणत्वं सम्मतं, तेन मूहुर्तमात्रप्रमाणेऽपि नमस्कारसहिते प्रत्याख्याने पञ्चोच्छ्वासमात्रेऽपि कायोत्सर्गे साकारतोदिता, कारणं तु तत्राऽल्पाया अपि प्रतिज्ञाया निराबाधपालनस्यैव गुणकरत्वमेव । - . एवं च सत्यणुव्रतादीनां भङ्गे निर्विवादमेव दारुणत्वं, तत एव च जातायां धर्मगुणप्रतिपत्तिश्रद्धायां तेषामणुव्रतादीनां प्रतिपत्तेः प्रागेव भङ्गस्य दारुणताचिन्तनं योग्यमेव । : . ननु प्रतिपन्नानामणुव्रतादीनां भङ्गे कथं दारुणत्वं ? किं भङ्गजन्य तदन्यथा वेति ?। आये, ननु राजाभियोगाऽऽदायो भङ्गरुपा आदित एव सम्यक्त्वादिपु, अनाभोगादयश्च नमस्कारसहितादिषु, उच्छ्वसितादयश्च कायोत्सर्गादिषु व्रतादिग्रहणकाले एवाऽनिवार्यतयाऽवस्थाप्यन्ते एवेति, अणुव्रतादीनां तु प्रकृति सुन्दरत्वाऽऽदिना पालितानां महालाभहेतुतैव स्यादिति-कथं भङ्गेऽणुव्रतादीनां दारुणतामिति आशङ्क्याहुः 'महामोहजणगत्त' इति, - मत्र भङ्गे' इति पदं पूर्वसूत्रादनुवर्तनीयमिति । .. तथा च न स्वरुपतो भङ्गस्य दारुणत्वं, स्वयमेवाऽऽकारादीनां क्रियमाणानां दारुणताप्रसङ्गात् , न च प्राक्पालितानामणुव्रतादीनां पश्चाद् दारुणत्वं जायते, प्रकृतिसुन्दरत्वाऽऽदिधमैंरुपेतत्वात्तषां, परं विश्ववैचित्र्यमेतत् स्वभावो जगत एष यदुत धर्म प्रतिपद्य विशुद्धतमया रीत्या पालयित्वाऽपि तं प्रतिपतन्तस्तस्मात्तथा दुष्टतमाऽध्यवसाया जायन्ते, यथा दारुणत्वमवश्यं तेषां जायते । को हेतुरिति ?, स उक्त एव, महामोहजनकत्वं । -: अत एवोच्यते 'धर्मभ्रष्टो निविंशः श्वपाकादतिरिच्यते' इति, आंज्ञप्तं च शास्त्रे यदुत-- पंतितश्रामण्यपरिणामः कण्डरीकः पालितदीर्घकालीनसंयमोऽपि स्वल्पेनैव कालेन सडिक्लष्टतमती गतोऽधः सप्तमावनीमापेति, मणिकारो नन्दश्च तथाप्रकारविशद्धाणुव्रतो जातो वाप्यां स्वकीयायां दर्दरतयेति..योग्य वोक्तं भने महामोहजनकत्वमिति । यथा हि श्रीसमवायाङ्गाऽऽवश्यकाऽऽ धुक्तानि त्रिंशन् महामोहनीयबन्धस्थानानि सन्ति, तथेदमप्यणुव्रतादीनां भङ्गरुपं महामोहनीयस्थानमित्युक्तं महामोह जनकत्वं । सामान्येन मोहजनकानि तु साम्परायिकाणां सर्वाण्यध्यवसायस्थानानि सन्ति, परमिदमणुव्रतादीनां भङ्गाज्जायमानमध्यवसायस्थानं तीव-रसस्थित्यादिमन्मोहजनकमिति महा-, . मोहजनकं भङ्गे दारुगत्वमुक्तमिति । .. महामोहबन्धनकारणानि विदधतोऽपि केचित् चिलातिपुत्र-दृढप्रहारिप्रभृतयो लघु श्रूयन्ते

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193