Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 147
________________ ( ११ ) तादृशान्य-धमाऽधमानि भवन्ति, येन श्रीमहानिशीथाssदिसूत्रेषु परदाराऽभिगमकारिणां अधमाधमपुरुषतया गणना कृता, क्लिष्टतर कर्मबन्धकारकतया च स तत्र वर्णितः । किश्वाऽन्यत्राऽपि - 'भक्खणे देवदव्वस्स, परइत्थीणं तु संगमे । सत्तमं णरयं जंति, सत्तवारा उ गोयमा ? ॥ १ ॥ इति स्पष्टतयाऽऽख्यायते । संयतिचतुर्थभङ्गे तु बोधिलाभस्यैव मूलेऽग्निदानं जातमित्याख्यायते । किश्च परदाराऽभिगमरतो हि तेषां रक्षणपरायणानां तदाश्रितानां तत्सम्बद्धानां च घातमन्विच्छन् कथंकारं स क्लिष्टतराध्यतसायवान्न स्यात् ? अन्यच्च अपत्योत्पादनफलो हि कुलीनानां विवाहः, स च परदाराभिगमने समूलकाशं निकष्येत । न च वाच्यं परिणयनविधिर्व्यावहारिकस्ततस्तमाश्रित्य स्व-परदारव्यवहारः, तमाश्रित्य पापबन्धस्य क्लिष्टतराऽऽदिव्यवहारः कथं स्यादिति ? यतः निर्णीततरमेतद्विदुषां यदुत-कर्मणां बन्धे प्रधानतरं कारणमध्यवसायाः, बद्धे च व्यवहारे तस्मिन् प्रागङ्गीकृते च पश्चात्तद्विलोपने भवन्त्येव क्लिष्टतराध्यवसायाः क्लिष्टतरश्च स्यादत्र पापबन्धस्तत्र न किमप्याश्रये । ; किञ्च–सत्यवादाऽऽदिष्वपि व्यवहार एव निबन्धनं तदतिक्रमादेव च तत्राऽपि मृषावादाऽऽदंयो दोष अभिमता इति । ब नन्वेवं चतुर्थेऽणुव्रते स्वदारगमनस्य नियमनात् तुर्याऽणुव्रतस्य चागारधर्मत्वात् विधिना स्वदारेष्वभिगमो धर्मतामापद्यमानः कथं निवारणीयः ? इति चेत् ? सत्यं ! तुर्यम् अणुव्रत मगारधर्मः परं तत्र नाऽभिगमनस्याऽणुव्रतत्वं येन तथाविधमपि मैथुनं धर्मतामपद्येत, किन्तु तुर्ये'हि अणुत्रते स्वदारैः सन्तोषः क्रियते, तथा च तत्सन्तोषस्य परकलत्रपरिग्रहविरमणस्य धर्मत्वमणुत्रतेऽत्रेति । परतीर्थिकानां देवाः सस्त्रीका इति ते स्वदोषाच्छादनाय ऋतुगमनाऽऽदिनाम्ना स्वदारगतस्य मैथुनस्य 'ऋतुकाले विधानेने 'त्याख्याय निर्दोषतामाचख्युः । स्मृतिकारास्तु पशुप्रायाः केचिदिति स्व-परदारविभागमप्युपेक्ष्य 'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्याचख्युः । श्रूयन्ते चानेकेषां परतीर्थीयानां मान्यानां महर्षीणां तथाविधा गौतमाऽहल्यादिदृष्टान्तेषु विडम्बनोदन्ताः !. 1.5

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193