________________
( ११ )
तादृशान्य-धमाऽधमानि भवन्ति, येन श्रीमहानिशीथाssदिसूत्रेषु परदाराऽभिगमकारिणां अधमाधमपुरुषतया गणना कृता, क्लिष्टतर कर्मबन्धकारकतया च स तत्र वर्णितः ।
किश्वाऽन्यत्राऽपि
-
'भक्खणे देवदव्वस्स, परइत्थीणं तु संगमे ।
सत्तमं णरयं जंति, सत्तवारा उ गोयमा ? ॥ १ ॥
इति स्पष्टतयाऽऽख्यायते । संयतिचतुर्थभङ्गे तु बोधिलाभस्यैव मूलेऽग्निदानं जातमित्याख्यायते ।
किश्च परदाराऽभिगमरतो हि तेषां रक्षणपरायणानां तदाश्रितानां तत्सम्बद्धानां च घातमन्विच्छन् कथंकारं स क्लिष्टतराध्यतसायवान्न स्यात् ? अन्यच्च अपत्योत्पादनफलो हि कुलीनानां विवाहः, स च परदाराभिगमने समूलकाशं निकष्येत । न च वाच्यं परिणयनविधिर्व्यावहारिकस्ततस्तमाश्रित्य स्व-परदारव्यवहारः, तमाश्रित्य पापबन्धस्य क्लिष्टतराऽऽदिव्यवहारः कथं स्यादिति ? यतः निर्णीततरमेतद्विदुषां यदुत-कर्मणां बन्धे प्रधानतरं कारणमध्यवसायाः, बद्धे च व्यवहारे तस्मिन् प्रागङ्गीकृते च पश्चात्तद्विलोपने भवन्त्येव क्लिष्टतराध्यवसायाः क्लिष्टतरश्च स्यादत्र पापबन्धस्तत्र न किमप्याश्रये ।
;
किञ्च–सत्यवादाऽऽदिष्वपि व्यवहार एव निबन्धनं तदतिक्रमादेव च तत्राऽपि मृषावादाऽऽदंयो दोष अभिमता इति ।
ब
नन्वेवं चतुर्थेऽणुव्रते स्वदारगमनस्य नियमनात् तुर्याऽणुव्रतस्य चागारधर्मत्वात् विधिना स्वदारेष्वभिगमो धर्मतामापद्यमानः कथं निवारणीयः ? इति चेत् ?
सत्यं ! तुर्यम् अणुव्रत मगारधर्मः परं तत्र नाऽभिगमनस्याऽणुव्रतत्वं येन तथाविधमपि मैथुनं धर्मतामपद्येत, किन्तु तुर्ये'हि अणुत्रते स्वदारैः सन्तोषः क्रियते, तथा च तत्सन्तोषस्य परकलत्रपरिग्रहविरमणस्य धर्मत्वमणुत्रतेऽत्रेति ।
परतीर्थिकानां देवाः सस्त्रीका इति ते स्वदोषाच्छादनाय ऋतुगमनाऽऽदिनाम्ना स्वदारगतस्य मैथुनस्य 'ऋतुकाले विधानेने 'त्याख्याय निर्दोषतामाचख्युः ।
स्मृतिकारास्तु पशुप्रायाः केचिदिति स्व-परदारविभागमप्युपेक्ष्य 'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्याचख्युः ।
श्रूयन्ते चानेकेषां परतीर्थीयानां मान्यानां महर्षीणां तथाविधा गौतमाऽहल्यादिदृष्टान्तेषु विडम्बनोदन्ताः !.
1.5