________________
'मित्ती मे सब एसु, वेरं मझं ण केणई 'त्यादि 'सव्यस्त जीवरासिस्से 'त्यादि प्रतिपादयित्वा क्षमा ग्राहयति।
ततश्च भवति तेषां षण्णां जीवनिकायानां दयायाः करणीयताविषये प्रज्ञापनं चाहत्येव तदिति, जैनशासनोक्तानि स्थूलप्राणवधविरमणादीनि प्रकृतिसुन्दराण्येवेति । ___अवधेयं तावदिदमत्र यदुत-श्रमणोपासकधर्ममभ्युपयन् श्राद्धः 'तत्त्वाऽर्थश्रद्धानं सम्यग्दर्शन मिति 'जीवाज्जीवाऽऽश्रवावन्धसंवरनिर्जरामोक्षास्तत्व 'मित्याद्यवधारयन् पृथिव्यादीनां षण्णामपि जीवनिकायानां श्रद्धायुक्त एव भवति । अत एवोच्यते 'सत्येव (सम्यक्त्वे) न्याय्यमणुव्रतादीनां ग्रहण 'मित्यादि । . .
युक्तं चेदमेव, यतो यः श्रद्धत्ते जीवान् त्रसतया स्थावरतया च, स एव क्षित्याऽऽदीनां स्थावराणां वधस्य वर्जनमशक्यं मत्वा तं परिजिहीर्घः सन् त्रसकायस्य वधं वर्जयन् स्थूलां प्राणातिपाताद् विरतिं करोति ।
यस्य तु सम्यक्त्वेन शून्यस्य त्रस-स्थावरभेदेन श्रद्धानमेव जीवानां नास्ति, स कथं तां तथाविधां कुर्यात् , तदभावे च शेषाणामपि तद्वृतिप्रायत्वादभाव एव तत्त्वतः स्यात् , ततो युक्तमुक्त 'सत्येव सम्यक्त्वे न्याय्यमणुव्रतादीनां ग्रहणं'।
किञ्च-श्रमणोपासको लोकव्यवहारार्थमावेणिकान् आचारान् कुर्वाणोऽपि न तत्करणं धर्मत्वेन मन्यते । अतएव च “निरर्थिकां न कुर्वीत, जीवेषु स्थावरेष्वपि ।
. हिंसामहिंसाधर्मज्ञैः” इत्याद्युपपद्यते । ..... ततश्च सर्वप्राणिवधवर्जनरूपां सर्वविरतिमभीप्सन् स्थूलप्राणवधविरतिरूपां देशविरतिं कुर्वन्नपि . श्रमणोपासकः अणुव्रतादीनां प्रकृति सुन्दरत्वमाम्नाति श्रद्धाति च ।
न च वाच्यमनन्तानां वनस्पत्यादीनां स्थावराणां वधस्य न वर्जनं कृतं तर्हि परिमितानामितरेषां वधादेवर्जनेन किं हि व्रतत्वमिति ? यतस्त्रसवधो वर्जितुं शक्यः, त्रसतयैव चैषां जीवानां वधोऽतिसंङ्क्लेशकरः,
सिद्धान्तश्चैप यदुत-हिंस्यकर्मविपाकेनापि जायमानायां हिंसायां हिंसकानां सलिष्टत्वानिमित्तभावादविरतेश्च भवत्यघन्दस्य वन्धः । अभावे तु सक्लेशादीनां 'जय भुंजतो भासंतो पावं कम्मं ण बंधई 'त्यादि वचनानाऽस्त्येव बन्धलेशोऽप्यघन्दस्य ।
मत एव चाऽप्रमत्तानां हिंसाया अभावाऽभावेऽपि अनाऽऽत्माऽऽरम्भकत्वाऽऽदि गीतमागमे इति ।