________________
... किञ्च-स्थूलवधविरत्यादीनामेव प्रकृतिसुन्दरत्वात् कश्चिदज्ञः प्रत्यनीको वा विहायाऽन्नाद्याहार मांसाद्याहारतया नियमयति, यावत् षष्ठे त्यक्त्वा च दिनभोजनं निशाभोजनं नियमयति, तदा शासनरसिकः प्रत्याख्यापकस्तं तथा विदधतं निषेधति, न च तथा व्रतयति कथमपि, तथाप्रत्याख्यानस्य प्रकृत्यैवाऽसुन्दरत्वात् । एवं स्थूला-ऽणुमृषावादविरमणाऽऽदिष्वपि स्थूलमृषावादाऽऽदिविरमणाऽऽदीनामेव प्रकृतिसुन्दरत्वं ज्ञेयमिति । - ननु स्थूलप्राणवधविरमणमित्यत्र कस्य स्थूलत्वं ? यतो विरमणं वधश्च क्रियारुपो; क्रियायाश्च द्रव्या- ... श्रितत्वान्न स्थूलत्वं न चाणुत्वं, यदि च प्राणानां स्थूलत्वमाम्नायते, तदपि न योग्यं, यतो यथाभूता एव . . हि सूक्ष्मशब्दवाच्यानां स्थावराणां स्पर्शनादयः प्राणास्तथाभूता एव च स्थूलशब्दचाच्यानांत्रसानामपि । यतो नाऽत्र स्थूलशब्देन बादरकर्मोदयनिष्पाद्यशरीरवत्वं विवक्षितं, तदितरत्र च सूक्ष्मनामकर्मोदयनिष्पन्नत्वं, किन्तु स्थूलशब्देन स्थूलमतिधारिभिरपि जीवतया प्रतीयमानत्वात् त्रसा एवं वक्तुमिष्टाः । . एवमेव च श्रीजैनशासनलब्धसूममतीनामेव जीवतया ग्राह्यत्वात् सूक्ष्मशब्देनाऽत्र पृथ्व्यादय एकेन्द्रिया वक्तुमिष्टा इति । प्राणानां स्थूलत्वं वा सूक्ष्मत्वं वा नाऽत्र वक्तुमिष्टं, प्राणास्त्विन्द्रियादयः. शरीरमानाधीनाः, शरीरमानेन च: यावन् महत्वं वनस्पतीनामेकेन्द्रियाणां तावन्न .. कस्याप्यन्यस्य, 'जोयणसहस्समहिअं णवरं पत्तेभरुक्खाण'तिवचनात् । . .. ... .
यद्यपि पञ्चेन्द्रियाणां वैक्रियं साधिक(लक्ष)योजनं भवति, परं न तत् स्वाभाविकमुत्तरवैक्रियं हिं तत्, स्वाभाविकं तु तत् संप्तहस्तमानमेवोत्कृष्टं एवं · भवति नाऽधिकं देवानपेक्ष्य, : नारकाणामपि स्वाभाविकं वैक्रियं पञ्च(शत)धनुर्मानमेव भवतीति । न द्वीन्द्रियादीनां शरीरप्राणादिमहत्त्वं, येन ते उच्यन्ते स्थूला इति । जीवास्तु एकेन्द्रियादय संसारिणः सिद्धाश्च: संसारमुक्ताः सर्वेऽप्यमूर्ता इति । जीवाऽपेक्षया स्थूलत्वमणुत्वञ्च : नैव सम्भवति, तत् कथं स्थूलप्राणवधविरमणं, किं स्थूलत्वं चापेक्ष्येति चेत् ? सत्यं ! .
.. .
... . - यद्यपि सूक्ष्मबुद्धय एव जैना एकेन्द्रियाऽऽदीन्ः पृथ्व्यादीन् जीवतयाऽवगच्छन्ति, परं न ते सूदमबुद्धयः केवलानेकेन्द्रियान् अवगम्य जीवतया द्वीन्द्रियादीन् त्रसान् नावगच्छन्ति जीवतया, तथाच : जिनेन्द्रोपदेशाप्तसूक्ष्मबुद्धयो जैना, द्विविधानपि तान् : जीवतया अवगच्छन्त्येव । तत्वतस्तु स्थूलत्वम् अत्र (विशिष्टं) विवक्षितं ज्ञेयं ।
· यद्यप्यत्राणुव्रते त्रसेभ्य एव तद्वधनिषेधाद् विरमणं, परं तत्र त्रसानां वधाद् विरमणं सङ्कल्पात, न त्वारम्भजात्, पचनाद्यर्थमग्न्यादीनां समारम्भे अग्न्यादीनां सर्वकायशस्त्रत्वात् त्रसानामपि विराधनाया अनिवार्यत्वात, ततश्च क्लिष्टतमाऽभिसन्धिजन्यस्य वधस्य दुस्तरविपाकत्वात् तत्कारण त्रसवधं वायति । . . . . . . . . . . . . . . . .