________________
प्रकृत्या सुन्दरसमिति-भक्तिकृतं सहकारादि स्नेहजमौचित्योत्पादितं चेत्यायनेकधी सुन्दरत्वमाभासते लोकानां, वर्णयन्ति लोकानां पुरतो यावत् कविताप्रयोगात् काव्यादिष्वपि कुमारसम्भवाऽऽदिष्विव, परं तथैषामणुव्रतादीनां न तद्भावनं सूत्रकारैरादिश्यते, किन्तु स्वभावेनैवैतानि स्थूलप्राणवधविरमणादीनि सुन्दराणि ।
यतः प्राक् तावत् विहायाऽऽर्हतान् न कोऽप्यन्यः दर्शनाश्रितः पृथिव्याऽऽदीन् षट्कायानेव जीवंतया जानाति । अन्ये तु लोकोक्तिप्रधानास्त्रसंकायमेव जीवं वदन्ति, वदन्ति च तत एव चलमानां जीवा इति । ततश्चाऽनन्ताः पृथ्यादय एकेन्द्रियास्तैख़ता एव न, कुतस्तर्हि तेषामुपदेशनं ? भत एवोच्यते आवश्यकादावणुव्रताद्यधिकार उपक्रम एव 'इत्थ उ समणोवासगधम्मे' इत्यादि उच्यते च 'णियमेण उ छक्काये' इत्यादि ।
_ ततस्ततत्त्वतस्तदेव जैनं शासन, यतः पृथ्व्यादीनां षण्णां जीवकायानां श्रद्धानमिति । एतदेव चादावुत्कृष्टत्वं जैनशासनस्य यत्-पण्णां जीवनिकायानां ज्ञानं श्रद्धानं प्ररूपणं स्वीकारो यथायथं पालनं च।
अत एव च कषशुद्धमिदमेव शासनं, षण्णामपि पृथ्यादीनां कायानां हिंसादिपापस्य वर्जनायोपदेशदानोद्यतत्वात् । तथा च षड्जीवनिकायानां दयायाः सम्भवः पालना उपाय इत्यादयोऽप्याहत एव दर्शने, अन्यत्र तथाविधाया हिंसाया दयायाश्च सम्भवाद्यभावात् सुख-दुःखाधतिशयादि-तत्फलदर्शकदृष्टान्ताऽभावाच्च । - किञ्च-अपरे हि सृष्टिवांदकुहेवाके मग्नतया करिमेकरूपं नित्यमभ्युपगच्छन्तः प्रतिपदमनभूयमानमपि पदार्थानां नित्याऽनित्य-सदसत्-सामान्य-विशेषाऽऽदिविविधधर्मवत्तया स्यादवादमुद्राऽतितत्वं नाऽभ्युपगच्छन्ति । ततश्च परतीर्थ्याः सर्वेऽपि तापशुध्ध्या धर्म शुद्धमाख्यातमलं न भवन्तीति । त्रिकोटिशुद्धं जैन शासनमिति, तदुक्तस्यैव श्रमणोपासकधर्मस्य प्रकृत्यैव सुन्दरत्वं स्यात् ।
अन्यच्च परे हि धर्मा · वीतरागेभ्य आदधतोऽसूयां वीतरागगुणमेवाऽप्रसन्नात् कथं फलं. .. प्राप्यमित्याद्यक्त्वा. दोषतयोगिरन्ति, स्वयं क्रोधाद्याध्मातास्तिष्ठन्ति । तत एव वैरमुद्वहन्त्यप्रीतेषु प्रतीकारं च तेषां कुर्वन्तस्तदेव न्याय्यमित्युद्घोषयन्ति, तत एव चाऽऽम्नायन्ति “दुष्टानां शिक्षणं. चैवें 'त्यादि ।
जैनानां तु शासनं 'मा कार्षीत् कोऽपि पापानी 'त्यादिना मैत्र्यादिभावनाचतुष्कं सम्यक कृत्वाऽनुगततया मैत्री-प्रमोदेत्यादितत्त्वार्थाऽऽद्युक्तेराविर्भावयति, द्विसन्ध्यं क्रियमाणे आवश्यक