________________
( २ )
यद्वाऽणुव्रतानि धर्मतया, दिग्विरत्यादयो गुणा गुणवतादिरूपाः स्थूलपरिग्रहविरमणोक्तेरनु 'इच्चाईत्ति' वचनात्तेषां गुणव्रताऽऽदीनां ग्रहणमपि नानुचितं, साक्षात् पञ्चानामनुव्रतानामुक्तिस्तु तत्मतिप्रत्तिरेव विरतिरूपतामादधातीति ज्ञापनार्थं ।
तथा चाऽविरतानामपि वासुदेवाऽऽदीनामष्टमपौषधिकत्वादिभिर्न विरोधः, यावज्जीबिकस्य स्थूलप्राणवधादिविरमणस्याऽप्रतिपत्तेर्वासुदेवाऽऽदीनामविरतत्वं, यावज्जीविका प्रतिपत्तिश्चाऽणुवतानामितरेषां त्वितरथापि । किञ्च प्रतिपन्नानामनुव्रतानां गुणायैवैतानि दिग्विरत्यादिरूपाणि व्रतानि, तत एव च शास्त्रे दिपरिमाणादीनां सप्तानामपि गुणत्रतत्वं शिक्षात्रतत्वं चोच्यते । श्रद्धाशब्दश्चात्र प्रतिपत्ति-रुच्यर्थः नतु प्रतीत्यर्थः, प्रतीतेस्तु सम्यक्त्वावसरे एव जातत्त्वात् । अष्टादशानां वधादीनां पापस्थानकत्वस्य तद्देशविरमणस्य तत्सर्वविरमणस्य च क्रमेण सम्यक्त्व - देशविरत - सर्व विरतत्वेनाधिगमात् ।
अत एव यतिधर्मस्या सामर्थ्ये देशविरतिरूपः श्रावकधर्मः, तस्याप्यसहिष्णुत्वे केवलं सम्यक्त्वं, तदभित्रीतेरप्यभावे च ' चउहिँ ठाणेहिं जीवा णेरड्याउत्ताए' इत्यादिदेशनाऽनुवादात् मांसप्रभृतिभ्यो विरतिश्व क्रमेण कार्यतयोक्ता देशकानामिति, अन्यथादेशनायां प्रायश्चित्तस्य प्रतिपादनात्, . तदेनं समीक्ष्य विद्वान् वचनं न कदापि वक्ति यद् - विना देशविरतिं न स्याम्न देया ग्राह्या वा सर्वविरतिः ॥
किश्च - देशविरतिरपि तेषामेव भवति, ये गृहस्थत्वं देशविरतिरतिरूपं तप्तायः कटाहपदन्यासतुल्यं गणयन्ति । ततश्चाऽपवादपदं देशविरतिः, सर्वविरतिस्त्वौत्सर्गिकीति । भगवता वीरेण देशनायामपि प्रागनगारधर्म एवाख्यात इति । प्रतिपत्तिश्च गुरोः सकाशाच्चैत्यवन्दनादिविधिना, ग्रहणं गुरूमुळे श्रुतधर्मेण इत्वरं यावत्कथिकं वा व्रतानां स्वीकारस्य भानात् ।
" भाविज्जा एएसिं सरूवं पयइसुंदरतं । "
'भावयेदेतेषां प्रकृतिसुन्दरत्वमिति । यद्यपि भूधातोः सत्तारूपोऽर्थस्तथापि ' धातूपसर्गनिपाता अनेकार्थी ' इति नियमात् ' धातवोऽनेकार्था' इति न्यायात् 'तक्षःस्वार्थे वे 'त्यादि - सूत्राच्च धातूनामनेकार्थत्वात् 'भावना वासना संस्कार' इति कोशाच्च वासनार्थोऽत्र भूधातुः । भू-कृपोचिन्तनेऽपिति मताऽन्तरेण भूश्चिन्तनार्थो भ्वादिगण्यते, तत्र तु न न्यायानुसरणं, परमेष विशेषो यदुत - ण्यागम एव वासनाऽर्थः नाऽन्यथेति ।
भावनं च न शास्त्रोक्तीरनुसृत्यैव, किन्त्वौत्पत्तिक्यादिबुद्धिप्रयोगेण समीपतरवर्ति चैतदो रूपमितिन्यायोक्तेः पुरतो वक्ष्यमाणानि स्थूलप्राणातिपात विरमणाऽऽदिनि पापमित्रवर्जनाऽऽदीनि ब्राऽत्रैतच्छ्देन ग्राह्याणि सन्ति चोभयान्यपि बहूनीति घहुवचनं ।
'