Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 127
________________ (८९) त्रिलोक्यामपि सकले जन्तुजाते परमगुणाः परमेष्ठिन एव पञ्च । तत्राऽपि कृतकृत्यत्वमनुभवन्तो द्वय एव भगवन्तोऽर्हन्तः सिद्धाश्चेति युक्तमुक्तम्, 'अचिन्त्यशक्तियुक्ता हि ते भगवन्त', इति । यद्यपि कृतकृत्यतया भगवन्तोऽर्हन्तः सिद्धाश्च शरण्यं प्रापिताः परं भगवदर्हद्वचनेनैव प्रवृत्तान सिद्धत्वं, शुद्धस्वरूपाश्च सिद्धा भगवन्तो ज्ञापिताः ज्ञात्वा केबलेन भगवद्भिरर्हद्भिरिति भगवतामर्हतां स्वरूपविशेषणांयाह-‘अरागाः सर्वज्ञा' इति । , यद्यप्यर्हत्वं भगवच्चं जिननामोदयनिबन्धनमेव स चोदयो भरतादिषु प्रत्युत्सर्पिण्य-वसर्पिणि चतुर्विंशतेरवस्थितकालवत्सु, महाविदेहेषु च सदैव विंशतेरेव जीवानां भवति, नोनानां चाधिकानाम् । अरागत्वयुक्तं सर्वज्ञत्वं तु असङ्ख्यातानामेव जीवानाम् । अत एव - ' मणनाणी केवलिणो ' इत्यादिना भरागाऽङ्कितसार्वश्यवन्तः साधुपदेऽत्र चतुःशरणाऽऽदिषु च पठ्यन्ते परं परे तीर्थेशा उद्घोषयन्ति ( स्वेषां ) स्वच्छन्दतया तीर्थोऽधिपत्वं परं न ते दौषैरष्टादशभिरज्ञानादिभिर्मुक्ता इति तद्व्यवच्छेदाय, प्राक् तृतीयभवादारन्धबन्धस्यापि जिननाम्नः साध्यफलप्राप्तेरुदयः अराग-सार्वश्ययुते एव सयोगिनि गुणस्थान इत्येतत् ज्ञापनाय च ' अरागाः सर्वज्ञा' इति गुणद्वयमर्हतां मगवतामत्राख्यातमिति, अन्यद्वा कारणं सुधिया स्वयमूह्यमत्रेति । ते च भगवन्तोऽर्हन्तः परमकल्याणाः सत्त्वानां यतः कोऽप्यन्यो न मोक्षमार्गस्य परमार्थेन विज्ञाता, ने च प्रवर्तकः, भवन्ति चाऽन्ये श्रुत्वा केवलिनः, अश्रुत्वा केवलिनः गृहिलिङ्गप्राप्त केवला अन्यलिङ्गप्राप्तकेवलाः, परं भगवतामर्हतामेव जिननाम्नः प्राकू तृतीयभवनिकाचितस्योदयो, येन त एव तीर्थं प्रवर्तयन्ति, प्रवर्तते च पुरतः पुरतस्तदीयमेव तीर्थमिति । - अनेकवेभ्यो जीवानां परमकल्याणकरणप्रवणाशया एवार्हन्तो भगवन्त इति न, किन्तु तीर्थदेशनेन गणभृदादीनां पत्राजनादिकरणेन द्वादशाङ्गीश्रुतस्यात्माऽनन्तर-परम्परभेदेन प्रवर्त्तनेन श्रीचतुर्विधसङ्घमयगणस्यार्पण प्रवर्त्तन-पारम्पर्याऽऽदिना च सत्वानां कल्याणकारिणोऽपि भवन्तीत्याह 4 कल्ला हेऊ सत्ताणं ' इति । तदेवं ' जावज्जीवं मे भगवंतो' 'परमतिलोगणा हे 'त्यादिना भवितुकामै: 'कल्लाणहेऊ सत्ताण 'मित्यन्तेन चतुःशरणगमनाऽऽदीनि तथाभव्यत्वपरिपाक साधनानि आचीर्णानि । अथ निगमयन् शरणगमनाऽऽदीनि, स्वस्वरूपं स्पष्टयन्नाह - ' मूढे अम्हि पावे ' इत्यादि । अवधार्थं चाऽत्रेदमवधारणाप्रधानैर्विज्ञैः यदुत - 'अस्थि मे आया उववाइए 'त्यादेः 'अक्कुव्वं चाह करिस्सं चाह 'मित्यादेः समुद्देशाद् अवश्यं धर्मकामैरात्मज्ञानांदिपूर्वकमेव जैनेऽत्र शासने परानुवृत्तिविचिकित्सनादिना जातायाः प्रवृत्र्त्तेर्निष्फलत्वाभावेऽपि स्वस्वरूपज्ञानपूर्विकाया एव प्रवृत्तेरात्मज्ञैरुपादेयेत्यविहताऽऽज्ञाऽऽमज्ञानपूर्विकायाः प्रवृत्तेः तथाप्रवृत्तेरेव ' तस्स भंते पडिकमामी 'त्याधुच्चारणं. फलमिति । एवमेवाऽऽत्मज्ञानपूर्वकं प्रवृत्तत्वादात्मनामाश्रववत्ता संवरहीनता च परिज्ञाता भवति । तत .

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193