________________
(८९)
त्रिलोक्यामपि सकले जन्तुजाते परमगुणाः परमेष्ठिन एव पञ्च । तत्राऽपि कृतकृत्यत्वमनुभवन्तो द्वय एव भगवन्तोऽर्हन्तः सिद्धाश्चेति युक्तमुक्तम्, 'अचिन्त्यशक्तियुक्ता हि ते भगवन्त', इति । यद्यपि कृतकृत्यतया भगवन्तोऽर्हन्तः सिद्धाश्च शरण्यं प्रापिताः परं भगवदर्हद्वचनेनैव प्रवृत्तान सिद्धत्वं, शुद्धस्वरूपाश्च सिद्धा भगवन्तो ज्ञापिताः ज्ञात्वा केबलेन भगवद्भिरर्हद्भिरिति भगवतामर्हतां स्वरूपविशेषणांयाह-‘अरागाः सर्वज्ञा' इति ।
,
यद्यप्यर्हत्वं भगवच्चं जिननामोदयनिबन्धनमेव स चोदयो भरतादिषु प्रत्युत्सर्पिण्य-वसर्पिणि चतुर्विंशतेरवस्थितकालवत्सु, महाविदेहेषु च सदैव विंशतेरेव जीवानां भवति, नोनानां चाधिकानाम् । अरागत्वयुक्तं सर्वज्ञत्वं तु असङ्ख्यातानामेव जीवानाम् । अत एव - ' मणनाणी केवलिणो ' इत्यादिना भरागाऽङ्कितसार्वश्यवन्तः साधुपदेऽत्र चतुःशरणाऽऽदिषु च पठ्यन्ते परं परे तीर्थेशा उद्घोषयन्ति ( स्वेषां ) स्वच्छन्दतया तीर्थोऽधिपत्वं परं न ते दौषैरष्टादशभिरज्ञानादिभिर्मुक्ता इति तद्व्यवच्छेदाय, प्राक् तृतीयभवादारन्धबन्धस्यापि जिननाम्नः साध्यफलप्राप्तेरुदयः अराग-सार्वश्ययुते एव सयोगिनि गुणस्थान इत्येतत् ज्ञापनाय च ' अरागाः सर्वज्ञा' इति गुणद्वयमर्हतां मगवतामत्राख्यातमिति, अन्यद्वा कारणं सुधिया स्वयमूह्यमत्रेति ।
ते च भगवन्तोऽर्हन्तः परमकल्याणाः सत्त्वानां यतः कोऽप्यन्यो न मोक्षमार्गस्य परमार्थेन विज्ञाता, ने च प्रवर्तकः, भवन्ति चाऽन्ये श्रुत्वा केवलिनः, अश्रुत्वा केवलिनः गृहिलिङ्गप्राप्त केवला अन्यलिङ्गप्राप्तकेवलाः, परं भगवतामर्हतामेव जिननाम्नः प्राकू तृतीयभवनिकाचितस्योदयो, येन त एव तीर्थं प्रवर्तयन्ति, प्रवर्तते च पुरतः पुरतस्तदीयमेव तीर्थमिति ।
- अनेकवेभ्यो जीवानां परमकल्याणकरणप्रवणाशया एवार्हन्तो भगवन्त इति न, किन्तु तीर्थदेशनेन गणभृदादीनां पत्राजनादिकरणेन द्वादशाङ्गीश्रुतस्यात्माऽनन्तर-परम्परभेदेन प्रवर्त्तनेन श्रीचतुर्विधसङ्घमयगणस्यार्पण प्रवर्त्तन-पारम्पर्याऽऽदिना च सत्वानां कल्याणकारिणोऽपि
भवन्तीत्याह
4
कल्ला हेऊ सत्ताणं ' इति ।
तदेवं ' जावज्जीवं मे भगवंतो' 'परमतिलोगणा हे 'त्यादिना भवितुकामै: 'कल्लाणहेऊ सत्ताण 'मित्यन्तेन चतुःशरणगमनाऽऽदीनि तथाभव्यत्वपरिपाक साधनानि आचीर्णानि ।
अथ निगमयन् शरणगमनाऽऽदीनि, स्वस्वरूपं स्पष्टयन्नाह - ' मूढे अम्हि पावे ' इत्यादि । अवधार्थं चाऽत्रेदमवधारणाप्रधानैर्विज्ञैः यदुत - 'अस्थि मे आया उववाइए 'त्यादेः 'अक्कुव्वं चाह करिस्सं चाह 'मित्यादेः समुद्देशाद् अवश्यं धर्मकामैरात्मज्ञानांदिपूर्वकमेव जैनेऽत्र शासने परानुवृत्तिविचिकित्सनादिना जातायाः प्रवृत्र्त्तेर्निष्फलत्वाभावेऽपि स्वस्वरूपज्ञानपूर्विकाया एव प्रवृत्तेरात्मज्ञैरुपादेयेत्यविहताऽऽज्ञाऽऽमज्ञानपूर्विकायाः प्रवृत्तेः तथाप्रवृत्तेरेव ' तस्स भंते पडिकमामी 'त्याधुच्चारणं. फलमिति । एवमेवाऽऽत्मज्ञानपूर्वकं प्रवृत्तत्वादात्मनामाश्रववत्ता संवरहीनता च परिज्ञाता भवति । तत
.