________________
(८८) एवाऽन्यगृहिलिङ्गस्थिता अपि केवलमापन्ना अन्तर्मुहूर्ताऽधिकाऽऽयुष्का अवश्यं द्रव्यनैर्ग्रन्ध्यं प्रतिपद्यन्ते । अत एवाह-'सम्म पडिवत्तिरूव'त्ति ।
सम्यक् प्रतिपत्तिश्च सैव बिभर्ति शोभा, या स्यानिरतिचारा, अत एव च सामायिकसूत्र एव 'तस्स भंते' इत्याधुच्यते । प्रथमाऽन्तिमजिनतीर्थयोश्चावश्यं प्रतिक्रमणानां पञ्चकं, शेषजिनतीर्थेषु चानुक्षणं रात्रिक दैवसिकेतिप्रतिक्रमणद्वयस्य करणमाचारतयाऽऽम्नातम् , अभ्यन्तरतपसि *कर्मसानुशतकोटिरूपे प्रथमं प्रायश्चित्तमुक्त्वा निरतिचारत्वस्यैव कृतोऽभिषेकः । अत एव च भगवता महावीरेणाऽऽनन्दश्रावकाय द्वादशानां व्रतानामतिचारजातवर्जनाय दत्त उपदेशः ।
एवमभिलषणीयं सुकृतानुमोदनाद्याशास्य तद्विषयं प्रणिधानं च प्रणिधाय महार्थतां तस्याऽऽकलय्य महानिधानप्रातिरिवं रोरस्य मत्वा तप्राप्तेरशक्यतमतां 'होउ मम तुहप्पभावओ भयव 'मित्यादिवत् प्रणिधेयप्राप्तये साहाय्यार्थमाह
'परमगुणजुत्तअरिहंताइसामत्थओ। .
अचिंतसत्तिजुत्ता हि ते भगवंतो'त्ति ।
शरणीकृतेष्वर्हदादिषु अर्हन्तो भगवन्तः सिद्धाधेति द्वये एव कृतार्थाः क्षीणराग-द्वेषा अपि सन्तः स्वाऽऽराधनापरानसुमतोऽन्तर्मुहूर्तेनापि कालेनाऽर्पका अपवर्गस्य ।
किश्व-अर्हत्प्रवचनप्रवृत्तेरभावे न कोऽपि देवत्वस्याऽवातावपि पल्योपमत्रयाऽधिकस्थितिमत्त्वं जीवोऽलभत, प्रवृत्ते एवाऽहत्प्रवचने च त्रयस्त्रिंशत्सागरप्रमाणां महतीं देवस्थितिमवाप्नुयुर्जीवाः, पल्योपमाश्चकस्मिन् सागरोपमे कोटीकोटीदशकमाना इति व्यवहारेण बहुत्वमपेक्ष्योच्यते यदा-यदहन्तो भगवन्त एव वीतराग-द्वेषा अपि स्वर्गस्थितिविधायका इति, तदा नाऽध्यप्रतीतिमद्(?)भवतीति अचिन्त्यसामर्थ्यताऽप्येपा ।
न च वाच्यं तर्हि नरकगतावप्युत्कृष्टा स्थितिरह प्रवचनकाल एवाऽर्यत इति भगवतामहतो नरकविधायक्रताऽपीतरविधायकतावदापयेतेति, भगवताऽहता प्राप्यतयाऽभ्युदयहेतोः साध्यतयापवर्गहेतोधर्मस्याऽऽदेयतया देशनात्, नरकाऽऽदिगतीनां यद्यपि महाऽऽरम्भादीनि कारणान्यादिष्टानि, परं तानि हेयतयाऽऽदिष्टानीति परमात्मानोऽर्हन्तः स्वर्गाऽपवर्गविधानादचिन्त्यसामर्थ्यगुणत्वाद् वास्तवमेव परमगुणयुक्तत्वं तेषां, विचित्रत्वाद् व्यवहारवानां प्रवृत्तेः।
. केचिदत एव परमेश्वरस्य स्वर्ग-नरकाऽऽदिवस्तुनां विधायकत्वं प्रतिपन्नाः केचित् प्रधानाऽनुयायिनां व्यवहाराः प्रधानाचाचार्यादयो भगवन्तः ते चार्हतां भगवतां स्वगांऽपवर्गमार्गदेशकृत्वाऽऽदिकानानित्य गुणान् परकर्तृतामभ्युपगम्य प्रवृत्ता इति, तदनुसारिणः शेपा जना निरुपचारं जगत्कर्तृत्व प्रतिपन्नाः। * कर्मरूपा ये सानवा पर्वताः, तेषु शतकोटि: वज्रं तद्रूपं यत् तस्मिन् ।
अभ्यन्तरतपसोहि कर्मनिर्जराप्रधानकारणत्वासूचनायैतत् पदम् ।