________________
(e)
1
नामपि मोक्षमार्गाऽनुकूलप्रशान्तवाहितारूपाणां गुणानां योगात् । विशेषश्च योगबिन्दुतः सवृत्ति - तोsवसेयः ।
तत्त्वं त्वत्र भवितुकामाः कल्याणाऽऽशयाश्चैते इति ।
अत एव च सम्यग्दर्शनस्य प्रशमाऽऽदेर्लक्षणस्य वर्णनेऽपि व्यवहारस्य पूर्वोक्तस्य सकृदबन्धक़ाऽऽदिगतस्य प्रहाय ‘सुस्स धम्मराओ' इत्यादीनि सम्यग्दृष्टेर्लक्षणानि प्रतिपादितानि । तथा च सम्यग्दर्शनेन रहिता मपि जीवाः केचित् सम्यग्दृष्टिवत् प्रवर्तमानाः सम्यग्दृष्टित्वधियाऽऽराध्यमाना अपि नissiघकानां मिध्यात्वं सम्यक्त्वमालिन्यं वा जनयन्ति, भवितुकाम-कल्याणाऽऽशयवज्जीववृत्तिभवितुकामादीनां लिङ्गतया गृहीत्वाऽनुमोदनादिति ।
एवं तृतीयस्थाने भगवतामईदादीनामनुमोदनरूपं सुकृतं सेवयित्वाऽनुमोच वाऽस्य प्रशस्तप्रणिधानार्थमाह-' होउ मे एसा अणुमोयणेत्यादि ।
यद्यपि कृतैव प्रागनुमोदना प्राग्प्रन्येन तथाप्यत्र साऽऽशिषा प्रार्थ्यते ' भवत्वित्यनेन । प्रार्थना चाप्राप्ते स्यादिति ज्ञापयत्याशिषा वचनेन यदुतेच्छात्मिका कृता मयाऽनुमोदना, तथा विधतत्फलाप्राप्तेः, सामर्थ्ययोगरूपा तु नैव जातेति सामर्थ्ययोगरूपाऽनुमोदनार्थमेष आशीः प्रयोग इति, तदेव ज्ञापयन्नाह - ' सम्मं विहिपुत्रियेत्यादि ।
यद्यपि भोजनौषधादीनामिव विधिपूर्वकस्यैव धर्मस्य सफलता, भावधर्मताऽपि सम्यग् विधिपूर्वकस्यैवानुष्ठानस्य नाऽपरस्य, परं सम्यग् विधिपूर्वकताया अशक्यत्वादादौ प्रमत्तभावपूर्वक एवाsप्रमत्तभाव इवाऽविधिपूर्वकस्यैवानुष्ठानस्य भावः प्रारम्भे, परं सोऽविधिर्न बाधको यः परिहारविषयमानेतुं यत्यते । अत एव शक्याऽविधित्यागपूर्वकस्याऽविधियुतानुष्ठानस्यापि भावधर्मता धर्मसङ्ग्रहण्यादावभिमता, परं प्रार्थना तु सम्पूर्णसम्यग् विधिपूर्वकस्येति योग्यमुक्तं " सम्यग् विधिपूर्विकाऽनुमोदना भवत्विति ।
एवं प्रणिधानविषयमानीयानुमोदनां तस्य सम्यग्विधिपूर्वकतां सुकृतानुमोदनस्य जीवातु कल्पस्य शुद्धाऽऽरायस्य प्रणिधानार्थमाह - ' सम्मं मुद्धासये 'ति ।
'
विदिततममेतत् विदितजैनमतानां विदुषां यदुत - जैने हि शासने नानुष्ठानस्य तादृग् माहात्म्यं यादृक् शुद्धाशयस्य । अत एवोच्यते, - 'इकोवि णमुकारो' इत्यादि 'विचं महत् सुरूप 'भित्यादि च शुद्धाऽऽशयमाहात्म्यायोच्यते च - 'भावत्थपण पावइ अंतमुहुत्तेण णिव्वाणमि'श्यादि । यच्चानादिस्थावरादायाता मरुदेव्याद्यजिनजननी प्रापाऽन्तकृत्केवलित्वं भरत ची आदर्शभवनगतोऽप्यवाप केवलं, तत्सर्वं शुद्धाशयस्यैव महिमानमाख्याति ।
किश्व - जैने शासने शुद्धाशयोऽपि द्रव्यप्रतिपत्त्यभिलाषेणान्वित एव शस्यते । अत
१२