________________
(८६) चारित्रेण रहितयोरपि सम्यग्दर्शन-ज्ञानयोर्मोक्षसाधनत्वात्तदनुमोदनार्थमाह सव्वेसि सावगाणं मोक्खसाहणजोगे'त्यादि ।
यथैव चौपपातिकसूत्रे श्रीवीरदेशनायां निग्रन्थानामनगारधर्मिणामाज्ञया आराधकत्वमाख्यातं तथैव श्राद्धधर्मिणामप्याज्ञयाऽऽराधकत्वमुक्तं, किन्तु श्राद्धानां देशतो हिंसादिभ्यां विरमणरूपं चारित्रमभिमतं च तत्फलतयैव 'जन्मभिरष्टव्येकै 'रिति ‘स सिध्यत्यन्तर्भवाष्टक 'मित्युक्तेरस्ति श्रावकाणां मोक्षसाधनयोगः, तत एव तेषां श्रावकाणां तस्य मोक्षसाधनयोगस्याऽनुमोदनं योग्यमेव ।
न च वाच्यं श्रावकाणां देशतो हिंसादिभ्यो विरतत्वेऽपि देशतोऽविरत्वेन सावद्याऽऽरम्भकत्वादयोगोलकल्पत्वान्नानुमोदनं योग्यम् , अनुमोदने च तेषां पार्श्वस्थाऽऽदीनां वन्दनादिभिः तद्गतानां प्रमादस्थानानामनुमोदनवत् श्रावककृतानां सावधानामनुमोदनप्रसङ्ग इति ।
____ यतो यो हि यत्र यत्र यावान् मोक्षमार्गयोगः, स तत्र तत्राऽनुमोद्य एव, अन्यथा सूत्रस्य चास्य व्यर्थकत्वापत्तेः । कामदेवाऽऽदीनामुपसर्गसहनादिकार्यस्य यावत् सूर्याभादीनां वन्दनादिकार्यस्य भगवता वीतरागेणैवाऽनुमोदनादिति ।
___ पार्श्वस्थादयस्त्वारूढगुरुपदा अपि गुरुपदस्यायोग्यानां स्थानानां परिषेवका इति तद्वन्दनादिभिर्गुरुपदाऽयोग्याऽऽचाराणामनुमोदनप्रसङ्गः । न च सद्गुरुवन्दनसूत्रेभ्यो भिन्नानि पार्श्वस्थाऽऽदिवन्दनसूत्राणि, ततश्च गुरुपदाद् दूरवर्त्तिनां गुरुवन्दनसूत्रेण वन्दने स्यादेव तदीयप्रमादस्थानानामनुमोदनम् , यथा सद्गुरुणां वन्दनेन भावुकानां 'तं महाफलं खु' इत्यादिसूत्रवर्णितो महालाभ इति । ___यदि च वन्दनीयानामवगुणैरात्मा लिप्यत एव वन्दनकानां, तर्हि छद्मस्था असर्वज्ञाश्चाचायांदयोऽवन्दनीया भवेयुभवेयुर्वा तदात्मस्थानां मोहादीनां दोषाणामनुमोदनमिति कृतम् । श्रावकाणामनुमोद्य एव मोक्षसाधनयोग इति ।
न केवलमेतदेवाऽनुमोद्य सम्यग्दर्शननादिगतं मोक्षसाधनत्वम्, किन्तु सततं रतिलीनानां सम्यग्दर्शनमात्रगुणवतां तदन्येषामपि च यो यः कल्याणाशयेन मार्गसाधनयोगः सोऽनुमोद्य इत्याह'सव्वेसिं देवाणं सबसि जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे इति ।
अनुमोदयामीत्यनुवर्तत एव 'अणुमोएमि सव्वेसि अरिहंताण' मित्यतः ।
न च वाच्यं मोक्षसाधनगुणानामस्त्वनुमोद्यता, अत्र तु भिन्नस्तस्मान्मार्गसाधनयोगः कथ्यते, ततश्च कथं तस्यानुमोद्यतेति, सत्यम् !, यथा मोक्षसाधनतयाऽनगारागारधर्माणामाराधनोपयोगिनी, तथैव सकृद्वन्धादीनामन्त्यपुद्गलावर्तभाविनां जीवानां शुभाऽध्यवसायप्रवृत्तिरभ्युपगम्याऽनुमोद्या च ।
अत एव शक्रस्तवे 'धम्मदयाण 'मित्यादिपदेभ्यो 'मग्गदयाण 'मित्यादीनि पदानि भिन्नार्थकानि प्रतिपादितानि, सकृद्वन्धकाऽपुनर्वन्धक-मार्गपतित-मार्गाऽभिमुख-मार्गानुसारिप्रभृती