________________
मत एव 'आख्यातयुपयोगे' [सिद्धहेम० २।२।७९] इति सूत्रेण "उपेत्याधीयतेऽस्मादिति पश्चम्या व्युत्पाद्यते उपाध्यायशब्द इति । । ... यद्यप्याचार्या उपाध्यायाश्च द्वयेऽपि वर्तयन्ति गच्छं, प्रोच्यते च द्विपरिग्रहा निर्ग्रन्था' इति प्रवचने दिग्बन्धाऽधिकारे, तथापि दीक्षितानां शैक्षादीनां संलिखित-मारणान्तिकीक्रियाऽन्तादीनां यथानवैयावृत्याऽऽदिना संयमसहायेन चोपकारकरणं तु साधूनामेव, अत एव च तेषां पात्रादिविविधोपकरणधृतिः सम्भोगिकव्यवहारश्च, साधूनां नमस्कार्यताऽपि 'असहाए सहायत्तं जे इमे संजमं करेंताण 'मित्यादिना संयमसाधनसहायकरणादेवानुमता ।
___ ततश्चाचार्योपाध्यायवदन्यूनातिरिक्तमेव साधूनां प्रवचने स्थानमिति कृत्वा माह 'सन्ते सिं साहूणं साहुकिरिय 'मिति ।
साघुक्रिया च यथाऽन्येषां संयमसाधने सहायस्य करणं, तथाऽऽत्मनाऽपि संयमयोगेषु निरन्तरमप्रमत्ततया रमणं चेति द्वयरूपैव ।।
यद्यप्यशेषा आस्तिकाः स्वान् स्वान् देवान् गुरूंश्चाऽऽराधयन्त्येव, परं जनानां विशेषोऽयमेवाssस्तिकानां यदुत-"यावन्तोऽर्हन्तः सिद्धाश्च तावतः सर्वानेव देवतयाऽभिमन्वते, एकमप्यन्तं सिद्धं च भगवन्तं चेद् देवतया नाभिमन्यते, तर्हि सोऽत्र मिथ्यादृक्तयागण्यते ।" अत एव गोशालाऽऽदय ऋपभाऽऽदीनामभ्युपगन्तारोऽपि श्रमणस्य भगवतोमहावीरस्यैकस्यानङ्गीकारात् मिथ्यादृशोऽभिमता, तद्वदेव चाहतः सिद्धांश्चैव देवतत्त्वाऽऽत्मकतयाऽभ्युपयन्ति, नाऽन्यान् केवलान मिश्रितानपि च ।
अत एवाभाविताऽवस्थानां जैनमताऽप्रीतिप्रकर्षपराकरणायैव च चारिसञ्जीवनीचारदृष्टान्तेन सर्वदेवाऽर्चनादेरूपदेशो, भावितावस्थायामवश्यमईदादिदेवतांविशेषस्यैव श्रयणं योगविन्दौ श्रीहरिभद्रसरयोऽपि स्पष्टतयैनमर्थमाख्यातवन्तः ।
यथोभयथाऽवधारणेनाईतां सिद्धानां च देवत्वं तथैवोभयावधारणेनेवाचार्योंपाध्याय-साधूनामेव गुरुत्वं पञ्चानामेव चैषां पूज्यत्वमाराध्यत्वं परमेष्ठितया ध्यातव्यादिक
चेत्यवसेयम् । । .. अत्र च यद् ऋषभाऽऽदीनामर्हतां पुण्डरीकाऽऽदीनां सिद्धानां यत् न ग्रहणं तेषां भरतादिक्षेत्राऽऽश्रितत्वेन । अत्र तु शाश्वतजिनानामृषभादीनामिव क्षेत्र-कालानांश्रितानां परमेष्ठिनां महणार्थ सर्वेषामर्हदादीनामनुष्ठानादिकमनुमोदितम् । . यथा चार्हदादीनामनुष्ठानादिकं भवितुकामानामनुमोदनीयं सुकृतरूपत्वात्तस्य, तद्वदेव सर्वविरतत्वाऽभावेन पूज्याऽऽराध्यत्वाभावेऽपि श्रावकादीनां सम्यग्दर्शनादिभिर्युक्तत्वाद् व्यवहारनयेन च